SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -७, १४३] सप्तमोऽधिकारः ततः सैन्यं समादाय चतुरङ्गं स्वयं नृपः । प्रागमत्तद्वधायाशु कोपकम्पितविग्रहः॥१२९॥ समर्थो यक्षदेवोऽपि कृत्वा मायामयं बलम् । हस्त्यश्वादिकमत्युच्चैः संमुखं वेगतः स्थितः ।।१३०।। तयोस्तत्र महायुद्धं कातराणां भयप्रदम् । समभूत्सुचिरं गाढं चमत्कारविधायकम् ॥१३१।। शूराशूरि तथान्योन्यमश्वाशिव च गजागजि । दण्डादण्डि महातीव्र खड्गाखड्गि क्षयंकरम् ॥१३२॥ तस्मिन् महति संग्रामे भूपतेश्छत्रमुन्नतम् । अछिनत्सध्वजं देवो यशोराशिवदुज्ज्वलम् ॥१३३।। तदा भीत्वा नृपो नष्टः प्राणसंदेहमाश्रितः। सिंहनादेन वा त्रस्तो गजेन्द्रो मदवानपि ॥१३४।। यक्षस्तत्पृष्ठतो लग्नस्तर्जयनिष्ठुरैः स्वरैः। मदग्रतः क्व यासि त्वं वराकः प्राणरक्षणे ॥१३५।। रे रे दुष्ट वृथा कष्टं श्रेष्ठिनो व्रतधारिणः । कारितश्चोपसर्गस्तु त्वया स्त्रीवञ्चितेन च ॥१३६।। जीवितेच्छास्ति चेत्तेऽत्र श्रेष्ठिनः शरणं ब्रज । जिनेन्द्रचरणाम्भोजसारसेवाविधायिनः ॥१३७॥ तदा सुदर्शनस्यासौ शरणं गतवान्नृपः । रक्ष रक्षेति मां शोधं शरणागतमुत्तम ॥१३८।। त्यजन्ति मार्दवं नैव सन्तः संपीडिता ध्रुवम् । ताडितं तापितं चापि काञ्चनं विलसच्छवि ॥१३९।। तत्समाकण्यं स श्रेष्ठी परमेष्ठिप्रसन्नधीः । स्वहस्तौ शीघ्रमुद्धृत्य तं समाश्वास्य भूपतिम् ॥१४०॥ तस्य रक्षां विधातुं तं यक्षं पप्रच्छ को भवान् ।। यक्षदेवस्तदा शीघ्रं श्रेष्ठिनं संप्रणम्य च ॥१४१।। For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy