________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
सुदर्शनचरितम्
[७, १९६कस्य पुत्रो गृहं कस्य भार्या वा कस्य बान्धवाः । संसारे भ्रमतो जन्तोनिजोपार्जितकर्मभिः ॥११६॥ अस्थिरं भुवने सर्व रत्नस्वर्णादिकं सदा। संपदा चपला नित्यं चञ्चलेव क्षणार्धतः ॥११७।। भवेऽस्मिन् शरणं नास्ति देवो वा भूपतिः परः । देवेन्द्रो वा फणीन्द्रो वा मुक्त्वा रत्नत्रयं शुभम् ॥११८॥ अत्र कर्मोदयेनोच्चैर्यद्वा तद्वा भवत्वलम् । अस्तु मे शरणं नित्यं पञ्चश्रीपरमेष्ठिनः ॥११९॥ एवं सुदर्शनो धीमान्मेरुवन्निश्चलाशयः । यावदास्ते सुवैराग्यं चिन्तयंश्चतुरोत्तमः ॥१२०॥ यावत्तस्य गले तत्र कोऽपि गाढं दुराशयः । प्रहारं कुरुते खाग तावत्तच्छीलपुण्यतः ।।१२१॥ कम्पनादासनस्याशु जैनधर्मे सुवत्सलः । यक्षदेवः समागत्य जिनपादाब्जषट्पदः॥१२२॥ स्तम्भयामास तान् सर्वान् दुष्टान भूपतिकिङकरान् । सुदृष्टिः सहते नैव मानभङ्ग सधर्मिणाम् ॥१२३।। एवं देवो महाधीरः परमानन्दनिर्भरः । उपसर्ग निराचक्रे तस्य धर्मानुरागतः ॥१२४॥ पुष्पवृष्टि विधायाशु सुगन्धीकृतदिङम खाम् । श्रेष्ठिनं पूजयामास सुधीः सज्जनभक्तिभाक् ।।१२५।। तथा तत्र स्थिता भव्याः परमानन्दनिर्भराः । जयकोलाहलं चक्रुः सज्जनानन्ददायकम् ॥१२६।। तत्समाकर्ण्य भूपालो धात्रीवाहनसंज्ञकः। प्रेषयामास दुष्टात्मा पुन त्यान् सुनिष्ठुरान् ॥१२७।। यक्षदेवश्च कोपेन तानपि प्रस्फुरत्प्रभः । सुधीः संकीलयामास स्वशक्त्या परमोदयः॥१२८॥
For Private And Personal Use Only