________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-७, ११५ ]
मोsधिकारः
इत्यादिकं तदा पौराः पश्चात्तापं प्रचक्रिरे ।
सन्तो येऽत्र परेषां हि ते दुःखं सोढुमक्षमाः || १०३|| तथा केनापि तद्वार्त्ता कष्टकोटिविधायिनी । शीघ्रं मनोरमायाश्च प्रोक्ता ते प्राणवल्लभः ॥ १०४ ॥
राजपत्नीप्रसङ्गेन शीलखण्डनदोषतः । राजादेशेन कष्टेन मार्यते च श्मशानके ॥ १०५ ॥ मनोरमा तदाकर्ण्य कम्पिताखिलविग्रहा | रुदन्ती ताडयन्ती च हृदयं शोकविह्वला ॥१०६ ॥ वाताहता लतेवेयं कल्पवृक्षवियोगतः । चचाल वेगतो मार्गे प्रस्खलन्ती पदे पदे || १०७ || हा हा नाथ त्वया चैतत्किं कृतं गुणमन्दिर । इत्यादिकं प्रजल्पन्ती तत्रागत्य श्मशानके ॥ १६८॥ दुष्टैः संवेष्टितं वीक्ष्य सर्वैर्वा चन्दनद्रुमम् । तं जगाद बचो नाथ किं जातं ते विरूपकम् ॥ १०९ ॥ हा नाथ केन दुष्टेन त्वय्येवं दोषसंभवः । पापिना विहितश्वापि कष्टकोटिविधायकः || १०॥ त्वं सदा शीलपानीयप्रक्षालितमहीतलः । श्रीजिनेन्द्रोक्तसद्धर्मप्रतिपालनतत्परः ।। १११ ॥ किं मेरुश्चलति स्थानात् किं समुद्रो विमुञ्चति । मर्यादा त्वं तथा नाथ किं शीलं त्यजसि ध्रुवम् ॥ ११२ ॥ हा नाथ स्वके चापि नैव ते व्रतखण्डनम् | सत्यं नोदयते भानुः पश्चिमायां दिशि क्वचित् ॥ ११३ ॥ अहो नाथात्र किं जातं ब्रूहि मे करुणापर | वाक्यामृतेन मे स्वास्थ्यं कुरु त्वं प्राणवल्लभ ।। ११४ ।। इत्यादि प्रलपन्ती सा यावदास्ते पुरः किल । तदा सुदर्शनो धीरः स्वचित्ते चिन्तयत्यलम् ॥ ११५।।
५
For Private And Personal Use Only
६५