SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७, ९० ६४ सुदर्शनचरितम् विचारेण विना जानन स्वराज्ञीपापचेष्टितम् । हन्यतां हन्यतां शीघ्र तान् जगौ पापपातकः ।।९।। हन्यः सामान्यचौरोऽत्र कि मया दुष्टमानसा । राजद्रोही न हन्तव्यो मम प्राणप्रियारतः ॥११॥ तदाकर्ण्य च कष्टास्ते किङ्करा निष्ठुरस्वराः । तत्रागत्य द्रुतं पापास्तं गृहीत्वा च मस्तके ॥१२॥ निष्काश्य भूपतेर्गेहान्नयन्ति स्म श्मशानकम् । अविज्ञातस्वभावा हि किं न कुर्वन्ति दुर्जनाः ॥९३।। तत्र कष्टशते काले सोऽपि धीरः सुदर्शनः । स्वचित्ते भावयामास ममैत्कर्मजृम्भितम् ।।१४।। किं कुर्वन्ति वराका में पराधीनास्तु किङ्कराः । शीलरत्नं सुनिर्मूल्यं तिष्ठत्यत्र सुखावहम् ।।१५।। किमेतेन शरीरेण निस्सारेण मम ध्रुवम् । धर्मोऽर्हतां जगत्पूज्यो जयत्वत्र जगद्धितः ।।१६।। एवं सुनिश्चलो धीमान्मेरुवन्निजमानसे । नीतः प्रेतवने चापि तस्थौ ध्यानगृहे सुखम् ॥२७॥ अहो सतां मनोवृत्तिर्भूतले केन वर्ण्यते । प्राणत्यागोपसर्गेऽपि निश्वला या जिताद्रिराट् ॥१८॥ तदा पुरेऽभवद्धाहाकारो घोरो महानिति । केचिद्वदन्ति धर्मात्मा श्रेष्ठी श्रीमान सुदर्शनः ॥९९।। किं करोति कुकर्मासौ श्रावकाचारकोविदः । किं वा भानुर्नभोभागे प्रस्फुरन् कुरुते तमः ॥१०॥ एष श्रीमजिनेन्द्रोक्तसच्छीलामृतवारिधिः। प्राणत्यागेऽपि सच्छीलं त्यजत्येव न सर्वथा ॥१०१।। अन्ये पौरजनाः प्राहुरहो केनापि पापिना। केन वा कारणेनापि कृतं किं वा भविष्यति ॥१०२।। For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy