SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -७, ८९] सप्तमोऽधिकारः हा मया सेवितो नैव सुरूपोऽयं सुदर्शनः । सोऽपि धीरः स्मरति स्म स्वचित्ते संमृतेः स्थितिम् ।।७।। अभया चिन्तयामास मुक्ता भोगा न साम्प्रतम् । सुदर्शनोऽपि सद्धर्म निर्मलं जिनभाषितम् ॥७८।। चिन्तयत्यभया चित्ते प्राप्तं मे मरणं ध्रुवम् । सुदर्शनोऽपि शुद्धात्मा शरणं जिनशासनम् ।।७।। पश्चात्तापं विधायाशु सा पुनः पण्डितां प्रति । प्राहैनं प्रापय स्थानं यत्र कुत्रापि वेगतः ॥८॥ सोद्विग्ना संजगौ धात्री दिवानाथः समुद्गतः। न शक्यते मया नेतुं यद्युक्तं तत्समाचर ॥८१।। तदाकाभया भीत्वा मृत्युमालोक्य सर्वथा। नखैर्विदार्य पापात्मा स्वस्तनौ हृदयं मुखम् ।।८।। शीलवत्याः शरीरं मे श्रेष्ठिनानेन दुर्धिया। कामातुरेण चागत्य ध्वस्तं चक्रे च पूत्कृतिम् ।।८।। किं करोति न दुःशीला दुष्टस्त्री कामलम्पटा । पातकं कष्टदं लोके कुललक्ष्मीक्षयंकरम् ।।८४॥ तत्पूत्कारं समाकर्ण्य तत्रागत्य च किङ्कराः। तत्र स्थितं तमालोक्य श्रेष्ठिनं विस्मयान्विताः ॥८५।। राजानं च नमस्कृत्य जगुस्ते भो महीपते । देवीगृहं समागत्य रात्रौ धृष्टः सुदर्शनः ।।८।। कामातुरोऽभयादेव्याः शरीरं चातिसुन्दरम् । पापी विदारयामास किं कुर्मस्तस्य भो प्रभो ॥७॥ दुःसहं तत्प्रभुः श्रुत्वा चिन्तयामास कोपतः । अहो दुष्टः कथं रात्रौ मन्दिरेऽत्र समागतः ॥८॥ परस्त्रीलम्पटः श्रेष्ठी पाषण्डी परवश्चकः। इत्यादिक्रोधदावाग्निसंतप्तो मूढमानसः ॥८॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy