SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७,६४ सुदर्शनचरितम् दुष्टस्त्रीणां स्वभावोऽयं यद्विलोक्य परं नरम् । प्रमोदं कुरुते चित्ते कामबाणप्रपीडिता ॥६४|| तथाभयमती सा च दुर्मतिः पापकर्मणा । शृङ्गारं सुविधायाशु कामिनां सुमनोहरम् ॥६५॥ हावभावादिकं सर्व विकारं संप्रदय च । जगौ लज्जां परित्यज्य वेश्या वा कामपीडिता ॥६६॥ मत्प्रियोऽसि मम स्वामी प्राणनाथस्त्वमूर्जितः । जाता त्वद्रपसौन्दर्य वीक्ष्याहं तेऽनुरागिणी ॥६॥ वल्लभस्त्वं कृपासिन्धुः प्रार्थितोऽसि मयाधुना। देहि चालिङ्गनं गाढं मह्यं शान्तिकरं परम् ।।६८॥ इत्यादिकं प्रलापं सा कृत्वा कामाग्निपीडिता। निस्त्रपा पापिनी भूत्वा खरी वा भूपभामिनी ॥६६॥ मुखे मुखार्पणैर्गाढमालिङ्गनशतैस्तथा। सरागैर्वचनैः कामवह्निज्वालाप्रदीपनैः ॥७०॥ अन्यर्विकारसंदोहैः कटिस्थानादिदर्शनैः । दर्शयित्वा स्वनाभिं च तं चालयितुमक्षमा ॥७॥ संजाता निर्मदा तत्र निरर्था सुतरां मुवि । चञ्चला सुचला चापि न शक्ता काश्चनाचले ॥७२।। स भव्यो ध्यानसच्छैलात्स्वव्रते मेरुवढः। नैव तत्र चचालोच्चैर्जिनपादाब्जषट्पदः ।।७३।। ततो भीत्वा जगौ शीघ्रं पण्डिता सा निरथिका । यस्मादसौ समानीतस्तत्रायं मुच्यतां त्वया ॥४॥ तयोक्तं क्व नयाम्येनं प्रातःकालोऽभवत्तराम् । पश्य सर्वत्र कुर्वन्ति पक्षिणोऽपि स्वरोत्करम् ।।७५।। तदाभया स्वचित्ते सा महाचिन्तातुराभवत् । किं करोमि क्व गच्छामि पश्चात्तापेन पीडिता ॥७६|| For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy