SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमोऽधिकारः अथ श्रीजिननाथोक्तश्रावकाचारकोविदः । श्रेष्ठी सुदर्शनो नित्यं दानपूजादितत्परः ॥१॥ अष्टम्यादिचतुःपर्वदिनेषु बुधसत्तमः । उपवासं विधायोच्चैः कर्मणां निर्जराकरम् ।।२।। रात्रौ प्रेतवनं गत्वा योगं गृह्णाति तत्त्ववित् । धौतवस्त्रान्वितश्चापि मुनिर्वा देह निस्पृहः ।।३।। तन्मत्वा पण्डिता सापि तमानेतुं कृतोद्यमा। कुम्भकारगृहं गत्वा कारयित्वा च मृण्मयान् ।।४।। सप्त पुत्तलकान् शीघ्रं नराकारान् मनोहरान् । ततः सा प्रतिपद्यस्ते संध्यायां धृष्टमानसा ।।५।। एक स्कन्धे समारोप्य वस्त्रेणाछाद्य वेगतः। भूपतेर्भवनं यावत्समायाति मदोद्धता ॥६॥ तावत्प्रतोलिकां प्राप्तां प्रतीहारस्तु तां जगौ। किं रे स्कन्धे समारोप्य नरं वा यासि सत्वरम् ॥७॥ सा चोवाच महाधूर्ता किं ते रे दुष्ट साम्प्रतम् । अहं देवीसमीपस्था कार्ये निश्शकमानसा ॥८॥ स्वेच्छया सर्वकार्याणि करोम्यत्र न संशयः। कस्त्वं वराकमावस्तु यो मां प्रति निषेधकः ।।२।। तदा तेन धृता हस्ते प्रतीहारेण पण्डिता । क्षिप्त्वा तं पुत्तलं शीवं शतखण्डं विधाय च ॥१०॥ पश्चात्कोपेन तं प्राह रे रे दुष्ट प्रणष्टधीः । पूर्व केनापि राज्येऽस्मिन् प्रतिषिद्धा न सर्वथा ॥११॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy