________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[६, १०३एकपत्नीव्रतोपेतो दुःसाध्यः श्रीसुदर्शनः । अगम्यं भवनं पुंसां सप्तप्राकारवेष्टितम् ॥१०३।। यद्यप्येतत्तव प्राणरक्षार्थ हृदि वर्तते । दुराग्रहो ग्रहो वात्र तदुपायो विधीयते ॥१०४|| यावत्तावत्त्वया चापि मुग्धे प्राणविसर्जनम् । कर्तव्यं नैव तद् बाले कुर्वेऽहं वाञ्छितं तव ॥१०५।। इत्यादिकं गदित्वाशु पण्डिता तां नृपप्रियाम् । समुद्धीर्य तदा तस्यास्तत्कार्य कर्तुमुद्यता ॥१०।। युक्तं लोके पराधीनः किं वा कार्य शुभाशुभम् । कर्मणा कुरुते नैव वशीभूतो निरन्तरम् ॥१०॥ स जयतु जिनदेवो योऽत्र कर्मारिजेता
सुरपतिशतपूज्यः केवलज्ञानदीपः । सकलगुणसमग्रो भव्यपद्मोघभानुः
परमशिवसुखश्रीवल्लभश्चिन्मयात्मा ॥१०८।। इति सुदर्शनचरिते पञ्चनमस्कारमाहात्म्यप्रदर्शके मुमुक्षुश्रीविद्यानन्दिविरचिते कपिलानिराकरणामयमतीव्यामोहविजम्मणव्यावर्णनो नाम
षष्टोऽधिकारः ॥
For Private And Personal Use Only