SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -६, १०२] षष्ठोऽधिकारः इत्यादिकं शुभं वाक्यं पण्डितायाः सुखप्रदम् । तस्याश्चित्तेऽभवत्कष्टं सज्वरे वा घृतादिकम् ॥१०॥ कोपं कृत्वा जगौ राज्ञी सर्व जानामि साम्प्रतम् । किं तु तेन विना शीध्र प्राणा मे यान्ति निश्चितम् ।।२१॥ परोपदेशने नित्यं सर्वोऽपि कुशलो जनः । अहमेवंविधोपायान् बहून वक्तुं क्षमा भुवि ।।९२।। येनाकर्णितमात्रेण चित्तं मे भिद्यतेतराम् । तेन स्याद्यदि संबन्धः सौख्यं मे सर्वथा भवेत् ।।१३।। कामतुल्योऽस्ति मे भर्ता गुणवानपि भूतले । तथापि मे मनोवृत्तिस्तस्मिन्नेव प्रवर्तते ॥९४॥ ब्रजन्त्या च मयोद्याने सख्या कपिलया समम् । प्रतिज्ञा विहिता मातः सुदर्शनविदा सह ॥१५॥ चेदहं न रतिक्रीडां करोम्यत्र तदा म्रिये । अतो भ्रान्ति परित्यज्य मानसे प्राणवल्लभे ॥१६॥ त्वया च सर्वथा शीघ्रं यथा मे वाञ्छितं भवेत् । निर्विकल्पेन कर्तव्यं तथा कि बहुजल्पनैः ॥२७॥ इत्याग्रहं समाकर्ण्य तयोक्तं पण्डिता तदा । स्वचित्ते चिन्तयामास हा कष्टं स्त्रीदुराग्रहः ॥२८॥ यथा प्रेतवने रक्षः कश्मले मक्षिकाकुलम् । निम्बे काको बको मत्स्ये शूकरो मलभक्षणे ॥१९॥ खलो दुष्टस्वभावे च परद्रव्येषु तस्करः। प्रीति नैव जहात्यत्र तथा कुस्त्री दुराग्रहम् ॥१०॥ अथवा यद्यथा यत्रावश्यंभावि शुभाशुभम् । तत्तथा तत्र लोकेऽस्मिन् भवत्येव सुनिश्चितम् ॥१०१॥ अहं चापि पराधीना सर्वथा किं करोम्यलम् । इत्याध्याय जगी देवीं भो सुते शृणु मद्वचः ।।१०२॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy