SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir –६, ७६ ] षष्टोऽधिकारः मन्येऽहं वञ्चिता त्वं च विप्रे तेन महाधिया । पुण्यवांल्लक्षणोपेतः स किं तादृग्विधो भवेत् ॥६४॥ यस्य पुत्रो मया दृष्टः सर्वलक्षणमण्डितः । अतस्त्वं ब्राह्मणी लोके सत्यं पश्चिमबुद्धिभाक् ॥६५॥ हसित्वा कपिला प्रोक्त्वा स्ववृत्तं यत्पुराकृतम् । राजपत्नीं पुनः प्राह शृणु त्वं देवि मद्वचः ||६६॥ सौभाग्यं च सुरूपत्वं चातुर्यं च तथापि ते । अस्यानुभवनान्मन्ये साफल्यं नान्यथा भुवि ||६ ॥ ऊचे सा भूपतेर्भार्याभयाख्या पापनिर्भया । यद्येनं नैव सेवामि म्रियेऽहं सर्वथा तदा ||६८|| कुस्त्रियः साहसं किं वा नैव कुर्वन्ति भूतले । कामाग्निपीडिताः कष्टं नदी वा कूलयुक्क्षया ॥ ६९ ॥ प्रतिज्ञायेति सा राज्ञी कृत्वा क्रीडां वने ततः । आगत्य मन्दिरं तल्पे पपातानङ्गपीडिता ||७०|| स्मराग्निज्वलिता गाढं प्रलपन्ती यथा तथा । निद्रासनादिभिर्मुक्ता कामिनां क्वास्ति चेतना ॥ ७१ ॥ तादृशीं तां समालोक्य कामबाणैः समाकुलाम् । प्रोवाच पण्डिता धात्री किं ते जातं सुते वद ॥७२॥ महिषी धात्रिकां प्राह स्ववार्त्ती चित्तसंस्थिताम् । रतिः सुदर्शनेनामा यदि स्यान्मे च जीवितम् ॥ ७३ ॥ लज्जादिकं परित्यज्य राज्ञी कामातुरा जगौ । - सर्वे पापप्रदं वाक्यं कामिनां क्व विवेकिता ||७४ || तं निशम्य पुनः प्राह पण्डिता पापभीरुता । कर्णौ पिधाय हस्ताभ्यां स्वशिरो धूनती मुहुः ॥ ७५ ॥ शृणु त्वं देवि वक्ष्येऽहं तावद्धर्मो यशः सुखम् । यावच्चित्ते भवेन्नित्यं शीलरत्नं जगद्धितम् ॥५६॥ For Private And Personal Use Only ५३
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy