________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६, ५१
सुदर्शनचरितम् वस्त्राभरणसंयुक्तान् प्रमोदभरनिर्भरान । जनान कुर्वन सुखोपेतान् स सुराजेव संबभौ ॥५।। चम्पकाम्रवसन्तादीन पादपान पल्लवान्वितान् । फलपुष्पादिसंपन्नान् वितन्वन् सज्जनो यथा ॥५२॥ मधोरागमने तत्र प्रमोदभरिताशयः । धात्रीवाहनभूपालः परिच्छदपरिष्कृतः ॥५३।। छत्रचामरवादित्रैः सर्वस्वान्तःपुरादिभिः । सर्वैः पौरजनैर्युक्तः क्रीडनार्थं वनं ययौ ॥५४॥ तत्राभयमती राज्ञी गच्छन्ती संविलोक्य सा। रूपं सुदर्शनस्योञ्चमहाप्रीतिविधायकम् ।।५५।। अहो रूपमहो रूपं भुवनक्षोभकारणम् । मोहिता मानसे गाढं चक्रे तस्य प्रशंसनम् ।।६।। तन्निशम्य तदा प्राह कपिला ब्राह्मणी वचः । अहो देवि प्रषण्ढोऽयं मानवो रूपवानपि ॥५७॥ किमस्य रूपसंपत्त्या पुरुषत्वेन हीनया। वल्या निष्फलया वात्र महाकोमलया भुवि ॥५८।। अमार्गऽथ रथारूढां राज्ञी वीक्ष्य मनोरमाम् । सुपुत्रां रूपलावण्यमण्डितां परमोदयाम् ॥५९।। प्राहेयं वनिता कस्य सपुत्रा गुणभूषणा । सफला कल्पवल्लीव कोमला शर्मदायिनी ॥६॥ तदाकर्ण्य सुधीः काचित्तहासी तां च संजगी। अहो देवि सुपुण्यात्मा राजश्रेष्ठी सुदर्शनः ।।६।। गुणरत्नाकरो भव्यः सज्जनानन्ददायकः । तस्येयं कामिनी दिव्या सपुत्रा कुलदीपिका ॥६२॥ अभया तत्समाकर्ण्य दासीवाक्यं मनोहरम् । विश्वासकारणं तत्र हसित्वा कपिलां जगौ ॥६३।।
For Private And Personal Use Only