SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् [६, २५औषधं क्रियते किं वा वचो मे देहि शर्मदम् । को वा वैद्यः समायाति कराब्ज मित्र दर्शय ॥२५॥ एवं यावत्सुधीमित्रस्नेहेन वदति द्रुतम् । तावत्सापि करं तस्य गृहीत्वा हृदये ददौ ।।२६।। तां विलोक्य तदा सोऽपि कम्पितो हृदये तराम् । सुधीः शीघ्रं समुत्तिष्ठन् पुनधृत्वा तयोदितम् ।।२७।। शृणु त्वं प्राणनाथात्र वचो मे जितमन्मथ । सुभोगामृतपानेन कामरोगं व्यपोहय ।।२८।। त्वदन्यो नास्ति मे वैद्यश्चिकित्साकर्मकोविदः । तवाधरसुधाधारां देहि मे साम्प्रतं द्रुतम् ॥२९॥ यतः कामाग्निशान्तिर्मे संभवेत्प्राणवल्लभ । स्मरबाणत्रणे देहे पटुं वालिङ्गनं कुरु ॥३०॥ इदं चूर्णं तवैवास्ति यद्देहि मुखचुम्बनम् । प्राणान् मे गत्वरान् स्वामिन् रक्ष त्वं सुभगोत्तम ॥३१॥ यन्मयालपितं नाथ कामबाणप्रपोडया। तत्त्वं सर्वप्रकारेण मदाशां पूरय प्रभो ॥३२॥ इत्यादिकं समाकर्ण्य तद्वाक्यं पापकारणम् । तदा सुदर्शनः श्रेष्ठी स्वचित्ते चकितस्तराम् ॥३३॥ चिन्तयामास पूतात्मा गृहीतस्तु तया दृढम् । मनोरमां परित्यज्य परनारी स्वसा मम ॥३४॥ धर्मेदृरज्ञानसद्धृत्तरत्नचोरणतस्करी। अस्मात् कथं मया शीघ्रं गम्यते शीलसागरः ॥३५॥ अधोमुखः क्षणं ध्यात्वा मानसे चतुरोत्तमः। तदोवाच वचः शीघ्र कामाग्निज्वलितां प्रति ॥३६॥ भो भद्रे त्वं न जानासि वचस्ते निःफलं गतम् । किं करोमि विशालाक्षि षण्ढत्वं मयि वर्त्तते ॥३७॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy