________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९
-६, २४ ]
षष्ठोऽधिकारः कृत्वा हस्तपुटं प्राह शृणु त्वं शुभगोत्तम । सखा ते कपिलो विप्रो महाज्वरकदर्थितः ।।१२।। बालमित्रं भवानुच्चै गतोऽसि कथं किल । तन्निशम्य सुधीः सोऽपि सुदर्शनवणिग्वरः ॥१३॥ तां जगौ शृणु भो भद्रे न जानेऽहं च सर्वथा। इदानीमेव जानामि तवोक्त्या शपथेन च ।।१४।। गदित्देति तया सार्द्ध चलितो मित्रवत्सलः । हा मया जानता कैश्चिद्वासरैः सुहृदुत्तमः ।।१५।। प्रमादाद्वीक्षितो नैव चिन्तयन्निति मानसे । यावत्तद्गृहमायाति तावत्सा कपिला खला ।।१६।। कामासक्ता स्वशृङ्गारं कृत्वा स्रक्चन्दनादिभिः । भूमावुपरि पल्यङ्के कोमलास्तरणान्विते ।।१७।। कच्छपीव सुवस्त्रेण स्वमाच्छाद्य मुखं स्थिता । लम्पटा स्त्री दुराचारप्रकारचतुरा किल ॥१८॥ यथा देवरते रक्ता यशोधरनितम्बिनी। अन्या वीरवती चापि दुष्टा गोपवती यथा ॥१२॥ दुष्टाः किं किं न कुर्वन्ति योषितः कामपीडिताः। या धर्मवर्जिता लोके कुबुद्धिविषदूषिताः ।।२०।। तदा प्राप्तः सुधीः श्रेष्ठी जगौ भद्रे व मे सखा। तयोक्तं चोपरिस्थाने मित्रं ते तिष्ठति द्रुतम् ।।२१।। एकाकिना त्वया श्रेष्ठिन् गम्यते हितचेतसा। तन्निशम्य सुधीः सोऽपि मित्रं द्रष्टुं समुत्सुकः ।।२२।। श्रेष्ठी सहागतान सर्वान् परित्यज्य विचक्षणः । गत्वा तत्र च पल्यङ्के स्थित्वा प्राह पवित्रधीः ॥२३॥ क तेऽनिष्टं शरीरेऽभूद् ब्रूहि भो मित्रपुङ्गव । कियन्तो दिवसा जाताः कथं नाकारिता वयम् ॥२५॥
For Private And Personal Use Only