________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽधिकारः
अथैकदा स्वपुण्येन रूपसोसुन्दरः । श्रेष्ठी सुदर्शनो श्रीमान् स्वकार्यार्थ पुरे क्वचित् ॥ १ ॥ संत्रजन् शीलसंपन्नः परस्त्रीषु पराङ्मुखः । श्रावकाचारपूतात्मा जिनभक्तिपरायणः || २ || कपिलस्य गृहासन्ने यदा यातो नताननः । दृष्टः कपिलया तत्र रूपरञ्जितसज्जनः ||३ ॥ तदा सा लम्पटा चित्ते कामबाणकरालिता । चिन्तयामास तद्रपं भुवनप्रीतिकारकम् ||४| यदानेन समं कामक्रीडां कुर्वे निजेच्छया । तदा से जीवितं जन्म यौवनं सफलं भुवि ॥ १५॥ अन्यथा निष्फलं सर्वं निर्जने कुसुमं यथा । चिन्तयित्वेति विप्रस्त्री कपिला स्मरविहला || ६ || कार्यार्थं कपिले क्वापि गते तस्मिन्निजेच्छया । स्वसखीं प्राह भो मातः सुदर्शनमिमं शुभम् ॥७॥ त्वं समानीय मे देहि कामदाहप्रशान्तये | नो चेन्मां विद्धि भो भद्रे संप्राप्तां यममन्दिरम् ||८|| अयं मे सर्वथा सत्यमुपकारो विधीयते । त्वदन्या मे सखी नास्ति प्राणसंधारणे ध्रुवम् ॥ ९ ॥ यथा तारावतौ व्योम्नि चन्द्रज्योत्स्ना तमः प्रहा । सत्यं कामातुरा नारी चला किं करोति न ॥ १०॥ तदाकर्ण्य सखी सापि प्रेरिता पापिनी तया । गत्वा द्राग्वचने चस्तत्समीपं प्रपञ्जिनी ॥ ११ ॥
For Private And Personal Use Only