________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-५, ८७ ]
पञ्चमोऽधिकारः शारदेन्दुतिरस्कारिकीर्तिव्याप्तजगत्त्रयः । सारासारविचारज्ञः पञ्चाचारधुरंधरः ।।७६।। षडावश्यकसत्कर्म शिथिलीकृतबन्धनः । परोपकारसंभारपवित्रीकृतभूतलः ॥७७|| देहि दीक्षां कृपां कृत्वा जैनी पापप्रणाशिनीम् । सोऽपि भट्टारकः स्वामी मत्वा तनिश्चयं ध्रुवम् ॥७॥ यथाभीष्टमहो भव्य कुरु त्वं स्वात्मनो हितम् । इत्युवाच शुभां वाणी ज्ञानिनो युक्तिवेदिनः ॥७९।। गुरोराज्ञां समादाय श्रेष्ठी वृषभदासवाक । पुनर्नत्वा जिनान सिद्धान गुरोः पादाम्बुजद्वयम् ॥८॥ सुदर्शनं नरेन्द्रस्य समर्प्य विनयोक्तिभिः । एतस्य पालनं राजन भवद्भिः क्रियते सदा ।।८१|| श्रीमतां सारपुण्येन करोमि हितमात्मनः । इत्याग्रहेण तेनापि सोऽनुज्ञातः प्रशस्य च ॥८२।। श्रेष्ठिन संसारकान्तारे धन्यास्तेऽत्र भवादृशाः। ये कुर्वन्ति निजात्मानं पवित्रं जिनदीक्षया ॥८३।। ततः श्रेष्ठी प्रहृष्टात्मा जिनस्नपनपूजनम् । कृत्वा बन्धून समापृच्छय विनयैर्मधुरोक्तिभिः ।।८।। बाह्याभ्यन्तरसंभूतं परित्यज्य परिग्रहम् । दत्वा मुदर्शनायाशु धनं धान्यादिकं परम् ।।८।। निजं श्रेष्ठिपदं चापि क्षमां कृत्वा समन्ततः । दीक्षामादाय निःशल्यो मुनिर्जातो विचक्षणः । ८६।। श्रेष्ठिनी जिनमत्याख्या तदा तद्गुरुपादयोः। युग्मं प्रणम्य मोहादिपरिग्रहपराङ्मुखा ।।८।।
For Private And Personal Use Only