________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम् वस्त्रमात्रं समादाय लात्वा दीक्षां यथोचिताम् । संश्रिता भक्तितः काचिदार्यिकां शुभमानसाम् ॥८॥ एवं तौ द्वौ जिनेन्द्रोक्तं तपः कृत्वा सुनिर्मलम् । समाधिना ततः काले स्वर्गसौख्यं समाश्रितौ ।।८।। स्थितौ तत्र स्वपुण्येन परमानन्दनिर्भरौ। जिनेन्द्रतपसा लोके किमसाध्यं सुखोत्तमम् ।।२०॥ इतः सुदर्शनो धीमान प्राप्य श्रेष्ठिपदं शुभम् । राज्यमान्यो गुणयुक्तः सत्यशौचक्षमादिभिः ॥२१॥ पितुः सत्संपदां प्राप्य स्वार्जितां च विशेषतः । मुञ्जन् भोगान मनोऽभीष्टान विपुण्यजनदुर्लभान् ।।२२।। मनोरमाप्रियोपेतः सज्जनैः परिवारितः । इन्द्रो वात्र प्रतीन्द्रेण स्वपुत्रेण विराजितः ।।९३।। श्रीजिनेन्द्रपदाम्भोजपूजनैकपवित्रधीः। सम्यग्दृष्टिर्जिनेन्द्रोक्तश्रावकाचारतत्परः ॥२४॥ पात्रदानप्रवाहेण श्रेयो राजाथवापरः दयालुः परमोदारो गम्भीरः सागरादपि ।।१५।। मनोरमालतोपेतः पुत्रपल्लवसंचयः । कुर्वन् परोपकारं स कल्पशाखीव संबभौ ॥९६।। जिनेन्द्रभवनोद्वारं प्रतिमाः पापनाशनाः। तत्प्रतिष्ठा जगत्प्राणितर्पिणीं वा धनावलीम् ।।२. ।। कुर्वन् जिनोदितं धर्म राज्यकार्येषु धीरधीः । त्रिसन्ध्यं जिनराजस्य वन्दनाभक्तितत्परः ।।२८।। तस्थौ सुखेन पूतात्मा सज्जनानन्ददायकः। शृण्वन् वाणी जिनेन्द्राणां नित्यं सद्गुरुसेवनात् ।।१९।।
For Private And Personal Use Only