________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-५, ६२ ]
पञ्चमोऽधिकारः भक्षित्वा च पलं तस्मात् प्रज्वलन्कामवह्निना। चाण्डालीसंगमं कृत्वा दुर्गतिं सोऽपि संययौ ॥५०॥ तस्मात्तत्त्यज्यते सद्धिर्मद्यं दुःखशतप्रदम् । संगतिश्चापि संत्याज्या मद्यपानविधायिनाम् ॥५१।। गणिकासंगमेनापि पापराशिः प्रकीर्तितः। मद्यमांसरतत्वाच्च परस्त्रीदोषतस्तथा ।।५२।। पापा ब्रह्मदत्ताद्याः क्षितीशाश्व क्षयं गताः । चौर्यण शिवभूत्याद्या रावणाद्याः परस्त्रिया ।।५३।। तस्मादाखेटकं चौयं परस्त्री श्वभ्रकारणम् । दौर्जन्यं च सदा त्याज्यं सद्भिः पापप्रदायकम् ॥५४॥ अणुव्रतानि पञ्चोच्चैस्त्रिप्रकारं गुणव्रतम् । शिक्षाव्रतानि चत्वारि पालनीयानि धीधनैः ।।१५।। सारधर्मविदा नित्यं संत्याज्यं रात्रिभोजनम् । अगालितं जलं हेयं धर्मतत्त्वविदांवरैः ॥५६॥ मांसव्रतविशुद्धयर्थं चर्मवारिघृतादिकम् । संधानकं सदा त्याज्यं दयाधर्मपरायणः ।।५७।। भोजनं परिहर्तव्यं मद्यमांसादिदर्शने। श्रावकाणां तथा हेयं कन्दमूलादिकं सदा ।।५८।। पात्रदानं सदा कार्य स्वशक्त्या शर्मसाधनम् । आहाराभयभैषज्यशास्त्रदानविकल्पभाक् ॥५९।। पूजा श्रीमजिनेन्द्राणां सदा सद्गतिदायिनी। संस्तुतिः सन्मतिर्जापे सर्वपापप्रणाशिनी ॥६॥ शास्त्रस्य श्रवणं नित्यं कार्य सन्मतिरक्षणम् । लक्ष्मी क्षेमयशःकारि कास्रवनिवारणम् ।।६।। अन्ते सल्लेखना कार्या जैनतत्त्वविदांवरैः । परिग्रहं परित्यज्य सर्वशर्मशतप्रदा ॥६२।।
For Private And Personal Use Only