SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५, ३८ सुदर्शनचरितम् तथा पापी बको राजा पलासक्तः प्रणष्टधीः।। लोकानां बालकानां च भक्षको निन्दितो जनैः ॥३८|| भक्षित्वा विप्रपुत्रं च त्यक्तः पौविचक्षणः । स मृत्वा दुर्गतिं प्राप पापिनामीदृशी गतिः ॥३९॥ मद्यपस्य भवेनित्यं नष्टबुद्धिः स्वपापतः । तत्पानमात्रतः शीघ्रं दृष्टान्तश्च निगद्यते ॥४०॥ एकपान्नामभागेको विप्रपुत्रोऽपि चैकदा । परिव्राजकवेषेण गङ्गास्नानार्थनिर्गतः ॥४१।। अटव्यां मत्तमातङ्गैर्मद्यमांसप्रभक्षकैः । चाण्डालीसंगतैधृत्वा स प्रोक्तो रे द्विजात्मज ॥४२।। मद्यमांसप्रियाणां च मध्ये यद्रोचतेतराम् । तदेकं स्वेच्छया भुक्त्वा याहि त्वं स्नानहेतवे ।।४।। अन्यथा जाह्नवी माता दुर्लभा मरणावधि । तन्निशम्य द्विजः सोऽपि चिन्तयामास चेतसि ॥४४|| पापलेपकरं मांसं श्वभ्रदुःखनिबन्धनम् । कथं वा भक्ष्यते विषैः कुलगोत्रक्षयंकरम् ।।४।। उक्तं चतिलसर्षपमात्रं च मांसं खादन्ति ये द्विजाः । तिष्ठन्ति नरके तावद्यावञ्चन्द्रदिवाकरौ ।।४।। चाण्डालीसंगमे जाते क्वचिद्मान्त्यापि पापतः। प्रायश्चित्तं जगुर्विप्रः काष्ठलक्षणसंज्ञकम् ।।४७।। धातकीगुडतोयोत्थं मह्यं सूत्रामणौ द्विजैः। गृहीतं चेति मूढात्मा वेदमूढः स विप्रकः ॥४८।। पीत्वा मद्यं प्रमत्तोऽसौ त्यक्तकोपीनकः कुधीः । विधाय नर्त्तनं कष्टं क्षुधासंपीडितस्ततः ।।४९।। For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy