SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir –'१, ३७ ] पञ्चमोऽधिकारः मुनीनां स महाधर्मो भवेत्स्वर्गापवर्गदः । सर्वथा पञ्चपापानां त्यागो रत्नत्रयात्मकः ||२५|| श्रावकाणां लघुः ख्यातस्तत्रादौ दोषवर्जितः । देवोऽर्हन् केवलज्ञानी गुरुर्निर्ग्रन्थतामितः ||२६|| दशलाक्षणिको धर्मः श्रद्धा चेति सुखप्रदा । पालनीया सदा भव्यैर्दुर्गतिच्छेदकारिणी ||२७|| जिनोत्तसप्ततत्त्वानां श्रद्धानं यच निर्मलम् । सम्यग्दर्शनमाम्नातं भवभ्रमणनाशनम् ||२८|| तथौपशमिकं मिश्रं क्षायिकं च तदुच्यते । सप्तानां प्रकृतीनां हि शममिश्रक्षयोक्तिभिः ||२९|| तेन युक्तो भवेद्धर्मो भव्यानां स्वर्गमोक्षदः । यथाधिष्ठानसंयुक्तः प्रासादः प्रविराजते ||३०|| मद्यमांसमधुत्यागः सहोदुम्बरपञ्चकैः । अष्टौ मूलगुणानाहुर्गृहिणां श्रवणोत्तमाः ||३१|| तथा सत्पुरुषं नित्यं द्यूतादिव्यसनानि च । संत्याज्यानि यकैः कथं महान्तोऽपि समाश्रिताः ||३२|| सप्तव्यसनमध्ये च प्रधानं द्यूतमुच्यते । कुलगोत्रयशोलक्ष्मीनाशकं तत्त्यजेद् बुधः ||३३|| कितवेषु सदा रागद्वेषासत्यप्रवञ्चनाः । दोषाः सर्वेऽपि तिष्ठन्ति यथा सर्पषु दुर्विषम् ||३४|| अत्रोदाहरणं राजा श्रावस्त्यां सुमहानपि । सुकेतुस्तेन राज्यं च हारितं द्यूतदोषतः ||३५|| युधिष्ठिरोऽपि भूपालो द्यतेनात्र प्रवचितः । कष्टां दशां तरां प्राप्तस्तस्माद्भव्यास्त्यजन्तु तत् ||३६|| श्रूयते च पुरा कुम्भनामा भूपः पलाशनात् । काम्पिल्याधिपतिर्नष्टः सूपकारेण संयुतः ||३७|| For Private And Personal Use Only ४१
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy