SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५, १२ सुदर्शनचरितम् तदागमनमात्रेण तद्वनं नन्दनोपमम् । सर्वर्तुफलपुष्पौघैः संजातं सुमनोहरम् ॥१२।। जलाशयास्तरां स्वच्छाः संपूर्णा रेजिरे तदा। जनतापच्छिदो नित्यं ते सतां मानसोपमाः॥१३।। ऋराः सिंहादयश्चापि बभूवुस्ते दयापराः । साधूनां सत्प्रभावेण किं शुभं यन्न जायते ॥१४।। तत्प्रभावं समालोक्य वनपालः प्रहर्षतः । फलादिकं समानीय धृत्वाने भूपति जगौ ।।१५।। भो राजन् भुवनानन्दी समायातो वने मुनिः । संघेन महता साधं पवित्रीकृतभूतलः ॥१६॥ तन्निशम्य प्रमुस्तस्मै दत्वा दानं प्रवेगतः । दापयित्वा शुभां भेरी भव्यानां शर्मदायिनीम् ॥१७॥ सर्वैर्वृषभद्रासाद्यैः पौरलोकैः समन्वितः । गत्वा वनं मुनि वीक्ष्य निःपरीत्य प्रमोदतः ॥१८॥ मुनैः पादाम्बुजद्वन्द्वं समभ्यर्च्य सुखप्रदम् । कृताञ्जलिर्नमश्चक्रे भव्यानामित्यनुक्रमः ।।१९।। मुनिः समाधिगुप्ताख्यो दयारससरित्पतिः । धर्मवृद्धिं ददौ स्वामी हृष्टास्ते भूमिपादयः ।।२०।। ततस्तैर्विनयेनोच्चैः संपृष्टो मुनिसत्तमः । धर्म जगाद भो भव्याः श्रूयतां जिनभाषितम् ।।२।। धर्म शर्माकरं नित्यं कुरुध्वं परमोदयम् । प्राप्यन्ते संपदो येन पुत्रमित्रादिभिर्युताः ।।२२।। सुराज्यं मान्यता नित्यं शौयौदार्यादयो गुणाः। विद्या यशः प्रमोदश्च धनधान्यादिकं तथा ॥२३॥ स्वर्गो मोक्षः क्रमेणापि प्राप्यते भव्यदेहिभिः । स धर्मो द्विविधो ज्ञेयो मुनिश्रावकभेदभाक् ॥२४॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy