________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽधिकारः अथातो दम्पती गाढं पूर्वपुण्यप्रभावतः। महास्नेहेन संयुक्तौ शचीदेवेन्द्रसंनिभौ ॥१।। भुञ्जानौ विविधान् भोगान् स्वपञ्चेन्द्रियगोचरान् । सुस्थिती मन्दिरे नित्यं परमानन्दनिर्भरौ ॥२॥ तदा कालक्रमेणोच्चैः संजाते सुरतोत्सवे । मनोरमा स्वपुण्येन शुभं गर्भ बभार च ॥३॥ अभ्रच्छाया यथा मेघ प्रजानां जीवनोपमम् । मासान्नव व्यतिक्रम्य सासूत सुतमुत्तमम् ।।४।। सर्वलक्षणसंपूर्ण सुकान्ताख्यं जनप्रियम् । रत्नभूमियथा रत्नसंचयं संपदाकरम् ।।५।। एवं वृषभदासाख्यः स श्रेष्ठी पुण्यपाकतः । तारागणर्यथा चन्द्रः पुत्रपौत्रादिभिर्युतः ॥६॥ श्रीमजिनेन्द्रचन्द्रोक्तधर्मकर्मणि तत्परः । श्रावकाचारपूतात्मा दानपूजापरायणः ।।७।। यावत्सतिष्ठते तावन्मुनीन्द्रो ज्ञानलोचनः । समाधिगुप्तनामोच्चैराजगाम वनान्तरम् ॥८॥ संघेन महता सार्द्ध रत्नत्रयविराजितः । श्रीजिनेन्द्रमताम्भोधिवर्धनेकविधुः सुधी ॥९॥ तपोरत्नाकरो नित्यं भव्याम्भोरुहभास्करः । जीवादिसप्ततत्त्वार्थसमर्थनविशारदः ॥१०॥ धर्मोपदेशपीयूषवृष्टिभिः परमोदयः । सदा संतर्पयन् भव्यचातकौघान् दयानिधिः ॥१४॥
For Private And Personal Use Only