________________
Shri Mahavir Jain Aradhana Kendra
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
चिरं जीवेति संप्रोक्त्वा पुण्यधारामिवोज्ज्वलाम् । एषा तुभ्यं मया दत्ता जलधारां ददौ मुदा ||११४॥ सोऽपि तत्पाणिपङ्कजपीडनं प्रमदप्रदम् । चक्रे सुदर्शनो धीमान् सर्व सज्जन साक्षिकम् ||११५ ।। एवं तदा तयोस्तत्र सज्जनानन्दकारणम् । विवाहमङ्गलं दिव्यं समभूत्पुण्ययोगतः ॥ ११६ ॥ इत्थं सारविभूतिमङ्गलशतैर्दानैः सुमानैः शुभः नित्यं पूर्णमनोरथैश्च नितरां जातो विवाहोत्सवः । सर्वेषां प्रचुरप्रमोदजनकः संतानसंवृद्धिकः सत्पुण्याच्छुभदेहिनां त्रिभुवने संपद्यते मङ्गलम् ॥११७॥
[ ४, ११४
इति सुदर्शन चरितं पञ्चनमस्कार माहात्म्य प्रदर्शक मुमुक्षुश्रीविद्यानन्दिविरचिते सुदर्शनमनोरमाविवाहमङ्गलव्यावर्णनो नाम चतुर्थोऽधिकारः ॥
For Private And Personal Use Only