________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-४, ६२]
चतुर्थोऽधिकारः तबाहू कोमलो रम्यौ करपल्लवसंयुतौ। सद्रत्नकङ्कणोपेतौ जयतो मालतीलताम् ।। ५० ।। कण्ठः ससुस्वरस्तस्यास्त्रिरेखो हारमण्डितः। कम्बुशोभा बभारोच्चैः सज्जनानन्ददायिनीम् ।। ५१ ॥ मुखाम्बुजं बभौ तस्या नासिकाकर्णिकायुतम् । सुगन्धं रदनज्योत्स्नाकेसरं कोमलं शुभम् ॥ ५२ ॥ चक्षुषी कर्णविश्रान्ते रेजाते भ्रूसमन्विते । कामिनां चित्तवेध्येषु पुष्पेषोः शरशोभिते ॥ ५३ ।। कर्णी लक्षणसंपूर्णी कुण्डलद्वयसुन्दरौ । तस्या रूपश्रियो नित्यमान्दोलश्रियमाश्रितौ ॥५४॥ कपोलौ निर्मलौ तस्या वर्तुंलाकारधारिणौ । जगच्चेतोहरौ नित्यं सोमवत्संबभूवतुः ।। ५५ ।। ललाटपट्टकं तस्या निर्मलं तिलकान्वितम् । चन्द्र विम्बं कलङ्कत्वाज्जयति स्म सदाशुभम् ।। ५६ ॥ तस्याः सुकेश्याः कबरीबन्धः केनोपमीयते । यस्तूच्चैः कामराजस्य कामिना पाशवद् बभौ ॥५७।। इत्यादिरूपसंपत्त्या वस्त्राभरणशोभिता । गुणः सुराङ्गनाः सापि जयति स्म मनोरमा ।।५८॥ अथैकदा पुरीमध्ये विनोदेन सुदर्शनः । कन्दर्पकामिनीरूपसर्पदर्पस्य जागुली ॥५९।। मित्रेण कपिलेनामा दिव्याभरणवस्त्रभाक् । पर्यटन कल्पवृक्षो वा याचकप्रीणनक्षमः ।।६।। सर्वलक्षणसंपूर्णः कलागुणविशारदः । सर्वस्त्रीजनसंदोहनेत्रनीलोत्पलश्रियः ॥६१॥ पूर्णेन्दुः पुण्यसंपूर्णः स्वकान्तिज्योत्स्नयान्वितः । क्वचिद् गच्छन् स्वसौभाग्यान्मोहयन् सकलान् जनान् ॥२॥
For Private And Personal Use Only