________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[४, ३७श्रेष्ठी सागरदत्ताख्यः स कदाचित्प्रमोदतः। जगी वृषभदासाख्यं प्रीतितो यदि मे सुता ॥ ३७ ॥ भविष्यति तदा तेऽस्मै दास्ये पुत्राय तो सुताम् । नाम्ना सुदर्शनायाह यतः प्रीतिः सदावयोः ॥ ३८ ॥ युक्तं सतां गुणिप्रीतिर्वल्लभा भवति ध्रुवम् । विदुषां भारतीवात्र लोकद्वयसुखावहा ॥ ३९ ।। ततः समीपकाले च तस्य पत्नी स्वमन्दिरे। सती सागरसेनाख्या समसूत सुतां शुभाम् ॥ ४० ॥ साभूमनोरमा नाम्ना नवयौवनमण्डिता। रूपसौभाग्यसंपन्ना कामदेवस्य वा रतिः ॥ ४१ ।। वस्त्राभरणसंयुक्ता सा रेजे सुमनोरमा। कोमला कल्पवल्लीव जनानां मोहनौषधिः ।। ४२ ।। तस्या द्वौ कोमलौ पादौ सारनू पुरसंयुतौ । साङ्गल्यौ लक्षणोपेतौ जयतः स्म कुशेशयम् ।। ४३ ।। तस्या जधे च रेजाते सारलक्षणलक्षिते। पादपङ्कजयोनित्यं दधत्यौ नालयोः श्रियम् ।। ४४ ॥ सदर्पचारुकन्दर्पभूपतेहतोरणे । रम्भाम्तम्भायितं तस्याश्चोरुभ्यां यौवनोत्सवे ।। ४५ ॥ नितम्बस्थलमेतस्या जैत्रभूमिमनोभुवः । यत्सदैवात्र वास्तव्यं पाति लोकत्रयं रतम् ।। ४६ ।। मध्यभागो बलिष्ठोऽस्याः कृशोदर्याः कृशोऽपि सन् । यो बलित्रितयाक्रान्तोऽप्यधिकां विदधौ श्रियम् ।।४७ ।। तस्याश्च हृदयं रेजे कुचद्वयसमन्वितम् । सहारं तोरणद्वारं सकुम्भं वा स्मरप्रभोः ।। ४८ ।। एतस्याः सरला काला रोमराजी तरां बभौ । कन्दर्पदन्तिनो विभ्रत्यालानस्तम्भविभ्रमम् ।। ४९ ॥
For Private And Personal Use Only