________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४, १२
सुदर्शनचरितम् तत्कण्ठः संबभौ नित्यं रेखात्रयविराजितः। लक्ष्मीविद्यायुषां प्राप्तिसूचको विमलध्वनिः ॥ १२ ॥ कण्ठे मुक्ताफलैर्दिव्यै रेजेऽसौ बालकोत्तमः । तारागणैर्यथा युक्तस्तारेशो राजतेतराम् ॥ १३ ।। मुजांसौ प्रोन्नतौ तस्य शोभितौ शर्मकारिणौ । लोकद्वयमहालक्ष्मीसत्क्रीडापर्वताविव ॥१४॥ हृदयं सदयं तस्य विस्तीर्ण परमोदयम् । व्यजेष्ट सागरं क्षारं सारगम्भीरतास्पदम् ॥ १५ ॥ तारेण दिव्यहारेण मुक्ताफलचयेन च । हृत्पङ्कजं बभौ तस्य तद्गुणग्रामशंसिना ॥ १६ ॥ आजानुलम्बिनौ बाहू रेजाते भूषणान्वितौ ॥ दृढौ वा विटपौ तस्य सदानौ कल्पशाखिनः ॥ १७ ।। पाणिपद्मद्वये तस्य कटकद्वय मुद्बभौ। कनत्कनकनिर्माणमुपयोगद्वयं यथा ॥ १८ ॥ तस्योदरं विभाति स्म सुमानं नाभिसंयुतम् । निधानस्थानकं वोच्चैः सर्वदोषविवर्जितम् ।। १९ ।। कटीतटं कटीसूत्रवेष्टितं सुदृढं बभौ । जम्बूद्वीपस्थलं वात्र स्वर्णवेदिकयान्वितम् ।। २० ।। ऊरुद्वयं शुभाकारं सुदृढं तस्य संबभौ । सारं कुलगृहस्योच्चैःस्तम्भद्वयमिवोत्तमम् ।। २१ ।। जानुद्वयं शुभं रेजे तस्य सारततं तराम् । वज्रगोलकयुग्मं वा कर्मारातिविजित्वरम् ।। २२ ।। जंघाद्वयं परं तस्य सर्वभारभरक्षमम् । भव्यानां सुकुलं किं वा तस्य रेजे सुखप्रदम् ।। २३ ।।
१. राशिना इति पाठः ।
For Private And Personal Use Only