________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽधिकारः
अथासौ बालको नित्यं पितुर्गेहे मनोहरे । वृद्धि गच्छन् यथासौख्यं लालितो वनिताकरैः ॥ १ ॥ द्वितीयेन्दुरिवारेजे जनयन् प्रीतिमुत्तमाम् । सत्यं सुपुण्यसंयुक्तः पुत्रः कस्य न शर्मदः ॥ २ ॥ दिव्याभरणसद्वस्त्रैर्भूषितोऽभात्स बालकः । सतामानन्दकृन्नित्यं कोमलो वा सुरद्रुमः ।। ३ ।। नित्यं महोत्सवैर्दिव्यैः स बालः पुण्यसंबलः। प्रौढार्भको विशेषेण शोभितो भुवनोत्तमः ।। ४ ।। पुत्रः सामान्यतश्चापि सज्जनानां सुखायते । मुक्तिगामी च यो भव्यस्तस्य किं वय॑ते भुवि ।। ५ ।। मस्तके कृष्णकेशौघैः स रेजे पुण्यपावनः। अलिभिः संश्रितो वात्र विकसच्चम्पकद्रुमः ।।६।। विस्तीर्ण निर्मलं तस्य ललाटस्थानमुन्नतम् । पूर्वपुण्यनरेन्द्रस्य वासस्थानमिवारु चत् ।। ७ ।। नासिका शुकतुण्डाभा गन्धामोदविलासिनी । उन्नता संबभौ तस्य सुयशःस्थितिशंसिनी ।। ८ ।। चक्षुषी तस्य रेजाते सारपद्मदलोपमे । तस्य तद्वर्णनेनालं यो भावी केवलेक्षणः ॥२॥ संलग्नौ तस्य द्वौ कौँ रत्नकुण्डलशोभितौ । सरस्वतीयशोदेव्योः क्रीडान्दोलनकोपमौ ।। १० ।। चन्द्रो दोषाकरो नित्यं सकलकः परिक्षयी। पद्मं जडाश्रितं तस्मात्तदास्यं जयति स्म ते ॥ ११ ॥
For Private And Personal Use Only