________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[३, १०३शोभनं दर्शनं सर्वजनानामभवद्यतः । ततो नाम चकारोच्चैः सुदर्शन इति स्फुटम् ।। १०३ ।। पूर्वपुण्येन जन्तूनां किं न जायेत भूतले । कुलं गोत्रं शुभं नाम लक्ष्मीः कीर्तिर्यशः सुखम् ।। १०४ ।। तस्माद्भव्या जिनैः प्रोक्तं पुण्यं सर्वत्र शर्मदम् । दानपूजात्रतं शीलं नित्यं कुर्वन्तु सादराः ।। १०५ ॥ पुण्येन दूरतरवस्तुसमागमोऽस्ति
पुण्यं विना तदपि हस्ततलात्प्रयाति । तस्मात्सुनिर्मलधियः कुरुत प्रमोदात्
पुण्यं जिनेन्द्रकथितं शिवशर्मबीजम् ।। १०६ ।। पुण्यं श्रीजिनराजचारुचरणाम्भोजद्वये चर्चनं
पुण्यं सारसुपात्रदानमतुलं पुण्यं व्रतारोपणम् । पुण्यं निर्मलशीलरत्नधरणं पर्वोपवासादिकं
पुण्यं नित्यपरोपकारकरणं भव्या भजन्तु श्रिये ।। १०७ ।। इति श्रीसुदर्शनचरिते पञ्चनमस्कारमाहात्म्यप्रकाशके मुमुक्षुश्रीविद्यानन्दिविरचिते सुदर्शनजन्ममहोत्सव
व्यावर्णनो नाम तृतीयोऽधिकारः ।।
For Private And Personal Use Only