SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -३, १०२] तृतीयोऽधिकारः स्वोदरे त्रिवलीभङ्ग तदा सा वहति स्म च। भाविपुत्रजराजन्ममृत्युनाशप्रसूचकम् ।। ९० ॥ कार्यादौ मन्दतां भेजे सा सती कमलेक्षणा । तत्तुजः क्रूरकार्येषु मन्दतां वात्र भाषिणीम् ॥९१ ।। सा सदा सुतरां पुण्यवती चापि तदा क्षणे। पात्रदाने जिनार्चायां विशेषाद्दौहृदं दधौ ।। १२ ।। नवमासानतिक्रम्य सुतं सासूत सुन्दरी। पुण्यपुञ्ज मिवोत्कृष्टं शुभे नक्षत्रवासरे ।। ९३ ॥ चतुर्थ्यां पुष्यमासस्य सिते पक्षे सुखाकरम् । तेजसा भास्करं किं वा कान्त्या जितसुधाकरम् ।। ९४ ।। श्रेष्ठीवृषभदासस्तु सजनैः परिमण्डितः । पुत्रजन्मोत्सवे गाढं परमानन्दनिर्भरः ।। १५ ।। कारयित्वा जिनेन्द्राणां भवने भुवनोत्तमे। गीतवादित्रमाङ्गल्यैः स्नपनं पूजनं महत् ।। ९६ ।। याचकानां ददौ दानं सुधीर्वाञ्छाधिकं मुदा । सारस्वर्णादिकं भूरि मृष्ट वाक्यसमन्वितम् ।। ९७ ॥ कुलाङ्गना महागीतगानैमानैर्मनोहरैः ।। गृहे गृहे तदा तत्र वादित्रध्वजतोरणैः ।। ९८ ।। चक्रे महोत्सवं रम्य जगज्जनमनःप्रियम् । सत्यं सत्पुत्रसंप्राप्तौ किं न कुर्वन्ति साधवः ।। ९९ ।। बान्धवाः सज्जनाः सर्वे परे भृत्यादयोऽपि च । वस्त्रताम्बूलसद्दानैर्मानितास्तेन हर्षतः ।। १०० ।। इत्थं श्रेष्ठी प्रमोदेन नित्यं दानादिभिस्तराम् । कतिचिद्वासरै रम्यैः पुनः श्रीमजिनालये ॥ १०१ ।। विधाय स्नपनं पूजां सज्जनानन्ददायिनीम् । भाविमुक्तिपतेस्तस्य पुत्रस्य परमादरात् ॥ १०२ ॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy