SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयोऽधिकारः श्रीजिनेषु मतिस्तस्याः संजातातीव निर्मला । ततोऽस्या जिनमत्याख्याभवत्सार्था शुभप्रदा ॥ ६४ ॥ यद्पसंपदं वीक्ष्य जगत्प्रीतिविधायिनीम् । जाता देवाङ्गना नूनं मेषोन्मेषविवर्जिताः ॥ ६५ ।। सद्दानकल्पवल्लीव परमानन्ददायिनी। पूजया जिनराजस्य शची वा भक्तितत्परा ।। ६६ ।। श्रावकाचारपतात्मा पवित्रीकृतभूतला। दयाक्षमागुणनित्यं सा रेजे वा मुनेर्मतिः ।। ६७ ।। एवं स्वपुण्यपाकेन श्रेष्ठिनी गुणशालिनी । एकदा मुखतः सुप्ता मन्दिरे सुन्दराकृतिः ।। ६८।। निशायाः पश्चिमे यामे स्वप्ने संपश्यति स्म सा । मेलं सुदर्शनं रम्यं दिव्यं कल्पद्रुमं मुदा ॥ ६९ ।। स्वर्विमानं सुरैः सेव्यं विस्तीर्णं च सरित्पतिम् । प्रज्वलन्तं शुभं वह्नि प्रध्वस्तध्वान्तसंचयम् ।। ७० ।। संतुष्टा प्रातरुत्थाय स्मृतपश्चनमस्कृतिः। प्राभातिकक्रियां कृत्वा जिनमातेव सन्मतिः ।। ७१ ।। वस्त्राभरणमादाय विकसन्मुखपङ्कजा । सुनम्रा श्रेष्ठिनं प्राह स्वस्वप्नान् शर्म सूचकान् ॥ ७२ ।। श्रेष्ठी वृषभदासस्तु तानिशम्य प्रदृष्टवान् । शुभं श्रुत्वा सुधीः को वा भूतले न प्रमोदवान् ॥ ७३ ॥ जगौ श्रेष्ठी शुभं भद्रे तथापि जिनमन्दिरम् । गत्वा गुरुं प्रपृच्छावो ज्ञानिनं तत्त्ववेदिनम् ।। ७४ ॥ ततस्तो बन्धुभिर्युक्तौ पूजाद्रव्यसमन्वितौ । जिनेन्द्रभवनं गत्वा परमानन्ददायकम् ।। ७५ ॥ पूजयित्वा जिनानुच्चैर्विशिष्टाष्टविधार्चनैः । संस्तुत्वा नमतः स्मोच्चैर्भव्यानामीदशी मतिः ।। ७६ ।। For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy