________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
सुदर्शनचरितम् प्रभुशक्तिर्भवेदाधा मन्त्रशक्तिद्धितीयका । उत्साहशक्तिराख्याता तृतीया भूभुजां शुभा ॥ ५१ ॥ इत्यादिभूरिसंपत्तेर्भूपतेस्तस्य भामिनी । नाम्नाभयमती ख्याता रूपलावण्यमण्डिता ।। ५२ ।। शची शक्रस्य चन्द्रस्य रोहिणीव रवेयथा । रण्णादेवी च तस्येष्टा साभवत् प्राणवल्लभा ।। ५३ ।। कामभोगरसाधारकूपिका कमलेक्षणा । भूपतेश्चित्तसारङ्गवागुरा मधुरस्वरा ।। ५४ ॥ तया साधं यथाभीष्टं भुञ्जन भोगान मनःप्रियान । स राजा सुखतस्तस्थौ लक्ष्म्या वा पुरुषोत्तमः ।। ५५ ।। श्रेष्ठी वृषभदासाख्यस्तयासीत्सर्वकायवित् । उत्तमश्रेष्ठिना राज्यं स्थिरीभवति भूपतेः ।। ५६ ।। श्रीमज्जिनेन्द्रपादाब्जसेवनैकमधुव्रतः । सदृष्टिः सद्गुरोर्भक्तः श्रावकाचारतत्परः ।। ५७ ।। जिनेन्द्रभवनोद्धारप्रतिमापुस्तकादिषु । चतुःप्रकारसंघेषु वत्सलः परमार्थतः ॥ ५८ ॥ एवं श्रीमज्जिनेन्द्रोक्तं शर्मसस्यप्रदायकम् । स्वचित्तामृतधाराभिस्तर्पयामास शुद्धधीः ।। ५९ ।। यो जिनेन्द्रपदाम्भोजचर्चनं चित्तरञ्जनम् । करोति स्म सदा भव्यः स्वर्गमोककारणम् ।। ६० ।। यः सदा नवभिपुण्यैर्दातृसप्तगुणान्वितः। पात्रदानेन पूतात्मा श्रेयांसो वापरो नृपः ॥ ६१ ।। स श्रेष्ठी याचकानां च दयालुर्दानमण्डितः । संजातः परमानन्ददायको वा सुरद्रुमः ।। ६२ ।। तत्प्रिया जिनमत्याख्या रूपसौभाग्यसंयुता । सतीव्रतपताकेव कुलमन्दिरदीपिका ।। ६३ ।।
For Private And Personal Use Only