________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-३, ५० ]
तृतीयोऽधिकारः
यत्र भव्या धनैर्धान्यैः पूर्वपुण्येन नित्यशः । सम्यक्त्वव्रतसंयुक्ताः सप्तव्यसनदूरगाः ॥ ३८ ॥ जैनीयात्राप्रतिष्ठाभिर्गरिष्ठाभिर्निरन्तरम् । पात्रदानजिनार्चाभिः साधयन्ति निजं हितम् ॥ ३९ ॥ यत्र नार्योऽपि रूपाढ्याः संपदाभिर्मनोहराः । सम्यक्त्वव्रतसद्वस्त्ररत्नभूपाविराजिताः ॥ ४० ॥ सत्पुत्रफलसंयुक्ता दानपूजादिमण्डिताः । कल्पवल्लीर्जयन्त्युच्चैः परोपकृतितत्पराः ॥ ४१ ॥ यत्र देवेन्द्रनागेन्द्रनरेन्द्राद्यैः प्रपूजितः । वासुपूज्यो जिनो जातः सा पुरी केन वर्ण्यते ॥ ४२ ॥ तत्र चम्पापुरीमध्ये बभौ राजा प्रजाहितः । प्रतापनिर्जितारातिर्धात्रीवाहननामभाक ॥ ४३ ॥ समन्ताद्यस्य पादाब्जद्वयं परमहीभुजः । सेवन्ते भक्तितो नित्यं पद्मं वा भ्रमरोत्कराः ॥ ४४ ॥ नीतिशास्त्रविचारज्ञो रूपेण जितमन्मथः । धर्मवान् स बभौ राजा वित्तेन धनदोपमः || ४५ ॥ राजविद्याभिरायुक्तः सप्तव्यसनवर्जितः । दाता भोक्ता प्रजाभीष्टो मदमुक्तो विचक्षणः ।। ४६ । सप्ताङ्गराज्यसंपन्नः सुधीः पञ्चाङ्गमन्त्रवित् । वैरिषड्वर्गनिर्मुक्तः शक्तित्रयविराजितः ॥ ४७ ॥ स्वाम्यमात्यसुहृत्कोपदेशदुर्गबलाश्रितम् । सप्ताङ्गराज्यमित्येष प्राप्तवान् जिनभाषितम् ॥ ४८ ॥ सहायं साधनोपायं देशकोषबलाबलम् । विपत्तेश्च प्रतीकारं पञ्चाङ्गं मन्त्रमाश्रयन् ॥ ४९ ॥ कामः क्रोधश्च मानश्च लोभो हर्षस्तथा मदः । अन्तरङ्गोऽरिषड्वर्गः क्षितीशानां भवन्त्यमी ॥ ५० ॥
For Private And Personal Use Only
२३