________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३, २५
सुदर्शनचरितम् यत्र सर्वत्र राजन्ते पुरग्रामवनादिषु । जिनेन्द्रप्रतिमोपेताः प्रासादाः सुमनोहराः ॥ २५ ॥ अनेकभव्यसंदोहजयनिर्घोषसंचयैः। गीतवादित्रपूजादिमहोत्सवशतैरपि ॥ २६ ॥ तोरणध्वजमाङ्गल्यैः स्वर्णकुम्भप्रकीर्णकैः । शोभन्ते सर्वभव्यानां परमानन्ददायिनः ॥ २७ ॥ वनादौ यत्र सर्वत्र मुनीन्द्रा ज्ञानलोचनाः । स्वच्छचित्ताः प्रकुर्वन्ति तपोध्यानोपदेशनम् ।। २८ ।। वापीकूपप्रपा यत्र सन्ति पान्थोपकारिकाः । सतां प्रवृत्तयो वात्र दानमानासनादिभिः ॥ २९ ॥ दानिनो यत्र वर्तन्ते शक्तिभक्तिशुभोक्तयः । सत्यं त एव दातारो ये वदन्ति प्रियं वचः ।। ३० ।। तस्याङ्गविषयस्योच्चैर्मध्ये चम्पापुरी शुभा। वासुपूज्यजिनेन्द्रस्य जन्मना या पवित्रिता ।। ३१॥ नानाहावली यत्र भव्यनामावली यथा। सारसंपद्धृता नित्यं शोभते शर्मदायिनी ॥ ३२ ॥ जिनेन्द्रभवनान्युच्चैर्यत्र कुम्भध्वजोत्करैः। आह्वयन्तीव पूजार्थ नित्यं सर्वनरामरान् ॥ ३३ ॥ साररत्नसुवर्णादिप्रतिमाभिविरेजिरे । भव्यानां शर्मकारीणि मेरुशृङ्गानि वावनौ ॥ ३४ ॥ घण्टाटङकारवादिनिर्घोषैर्भव्यसंस्तवैः । पूजोत्सवैहरन्त्यत्र यानि भव्यमनांस्यलम् ।। ३५ ।। प्राकारखातिकाट्टालतोरणाद्यैर्विभूषिता। पुरी या राजराजस्य रेजे वा सुमनोहरा ।। ३६ ।। अनेकरत्नमाणिक्यचन्दनागुरुवस्तुभिः । पट्टकूलादिभिर्योच्चैर्जयति स्म निधीनपि ॥ ३७ ।।
For Private And Personal Use Only