________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-३, २४]
तृतीयोऽधिकारः
कज्जलं लेखने यत्र नारीणां लोचनेषु च । वर्तते न पुनर्यत्र कुले गोत्रे च देहिनाम् ॥ १२ ॥ म्लानता दृश्यते यत्र मुक्तपुष्पप्रदामसु । प्रजानां न मुखेपूच्चैः पूर्वपुण्यप्रभावतः ॥ १३ ॥ दण्डशब्दोऽपि यत्रास्ति छत्रे नैव प्रजाजने । न्यायमार्गप्रवृत्तित्वाद्राज्ञां निर्लोभतस्तथा ॥ १४ ॥ गजादौ दमनं यत्र तपस्येव तपस्विनाम् । इन्द्रियेषु च विद्यत दुष्टबुद्धथा न कस्यचित् ॥ १५ ॥ चन्द्रे दोषाकरत्वं च वर्तते न प्रजासु च । बन्धनं यत्र पुष्पेषु रुन्धनं दुर्मनस्यलम् ॥ १६ ।। मित्थात्वं सुपरित्यज्य ज्ञात्वा हालाहलोपमम् । प्रजा यत्र प्रकुर्वन्ति सद्धर्म जिनभाषितम् ॥ १७ ।। पात्रदानं जिनेन्द्रार्चा व्रतं शीलं गुणोज्ज्वलम् । सोपवासं विधायोच्चैः साधयन्ति प्रजा हितम् ।। १८ ॥ यत्र पुष्पफलैर्नम्रसद्वनानि घनानि च । राजन्ते सर्वतीणि भव्यानां सुकुलानि वा ॥ १९ ॥ स्वच्छा जलाशया यत्र पद्माकरसमन्विताः। विस्तीर्णास्तापहन्तारस्ते सतां मानसोपमाः ॥ २० ॥ यत्र क्षेत्राणि शोभन्ते सर्वसस्यभृतानि च । दारिद्रयछेदकान्युच्चैर्भव्यवृन्दानि वा भुवि ॥ २१ ॥ सरांसि यत्र शोभन्ते चेतांसीव सतां सदा । सुवृत्तानि विशालानि तृषातापहराणि च ।। २२ ॥ यत्र भव्या वसन्त्येवं पूर्वपुण्यप्रसादतः । धनैर्धान्यजनैः पूर्णा जिनधर्मपरायणाः ।। २३ ॥ नार्यो यत्र विराजन्ते रूपसंपद्गुणान्विताः । कुर्वन्त्यो जैनसद्धर्म चतुर्विधमनुत्तरम् ॥ २४ ॥
For Private And Personal Use Only