________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयोऽधिकारः
Acharya Shri Kailassagarsuri Gyanmandir
-२, ४९ ]
ध्यायेन्मन्त्रमिमं धीमान् सर्वशान्तिविधायकम् | युक्तं दिवाकरोद्यते प्रयाति सकलं तमः ॥ ३८ ॥ तथा गुरूपदेशेन पञ्चश्रीपरमेष्ठिनाम् । षोडशाद्यक्षरैर्ज्ञेयो मन्त्रौघः शर्म साधकः ॥ ३९ ॥
शुद्धस्फटिकसंकाशां जिनेन्द्रप्रतिमां शुभाम् । सम्यग्दृष्टिः सदा ध्यायेत् सर्वपापप्रणाशिनीम् ॥ ४० ॥
उक्तं च
आप्तस्यासंनिधानेऽपि पुण्यायाकृतिपूजनम् । तार्क्षमुद्रा न किं कुर्याद्रिसामर्थ्य सूदनम् ॥ ४१ ॥
यथा जिनस्तथा जैनं ज्ञानं गुरुपदाम्बुजम् । सिद्धचक्रादिकं पूतं चर्चनीयं विचक्षणैः ॥ ४२ ॥ पूज्यपूजाक्रमेणैव भव्यः पूज्यतमो भवेत् । ततः सुखार्थिभिर्भव्यैः पूज्यपूजा न लभ्यते ॥ ४३ ॥ यथारु गिरीन्द्राणामम्बुधीनां पयोनिधिः । तथा परोपकारेस्तु धर्मिणां महतां महान् ॥ ४४ ॥ साधर्मिकेषु वात्सल्यं दानमानादिभिः सदा । कर्त्तव्यं शल्यनिर्मुक्तः प्रीत्या सद्धर्भवृद्धये ॥ ४५ ॥ तथा सुश्रावकैर्नित्यं जैनधर्मानुरागिभिः । शास्त्रस्य श्रवणं कार्यं गुरूणां सारसेवया ॥ ४६ ॥ इत्थं श्रीमज्जिनेन्द्रोक्तसप्रक्षेत्राणि नित्यशः । शर्मसस्यक राण्युच्चैस्तर्पणीयानि धीधनैः ॥ ४७ ॥ अन्ते च श्रावकैर्भव्यैजैनतत्त्वविदांवरैः । मोहं सङ्गं परित्यज्य संन्यासः संविधीयते ॥ ४८ ॥ अनन्यशरणीभूय भाक्तिकैः परमेष्ठिषु । विधाय शरणं चित्ते रत्नत्रयमनुत्तरम् ॥ ४९ ॥
For Private And Personal Use Only
१५