________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-२, २४]
द्वितीयोऽधिकारः
१३
पालनीयं बुधैर्नित्यं तद्विशुद्धौ सुखश्रिये । रामठं चर्मसंमिश्रं वर्जनीयं जलादिकम् ॥ १२ ॥ सप्तश्वभ्रप्रदायीनि व्यसनानि विशेषतः। संत्याज्यानि यकैश्चात्र महान्तोऽपि क्षयं गताः ॥ १३ ।। त्रसानां रक्षणं पुण्यं सुधीः संकल्पतः सदा । मृषावाक्यं बुधैहे यं निर्दयत्वस्य कारणम् ॥ १४ ॥ अदत्तादानसंत्यागो भव्यानां संपदाप्रदः । संतोषः स्वस्त्रियां नित्यं कर्त्तव्यः सुगतिश्रिये ॥ १५ ।। संख्या परिग्रहेषूच्चैः सर्वेषु गृहमेधिनाम् । संतोषकारिणी कार्या पद्मिन्या वा रविप्रभा ॥ १६ ॥ निशाभोजनकं त्याज्यं नित्यं भव्यैः सुखार्थिभिः । यद्बतं श्रावकाणां हि मुख्यं धयं च नेत्रवत् ॥ १७ ॥ जलानां गालने यत्नो विधेयो बुधसत्तमः । नित्यं प्रमादमुत्सृज्य सद्वस्त्रेण शुभश्रिये ।। १८ ।। दिग्देशानर्थदण्डाख्यं त्रिभेदं हि गुणवतम् । पालनीयं प्रयत्नेन भव्यानां सुगतिप्रदम् ।। १९ ॥ कन्दमूलं च संधानं पत्रशाकादिकं तथा।। यत्त्याज्यं श्रीजिनैः प्रोक्तं तत्त्याज्यं सर्वथा बुधैः ॥ २० ॥ शिक्षाव्रतानि चत्वारि श्रावकाणां हितानि वै । सामायिकत्रतं पूर्व चैत्यपञ्चगुरुस्तुतिः ।। २१ ॥ त्रिसन्ध्यं समताभावैर्महाधर्मानुरागिभिः । कर्तव्या सा महाभव्यैः शर्मणा जिनसूत्रतः ॥ २२ ॥ अष्टम्यां च चतुर्दश्यां प्रोषधः प्रविधीयते । कर्मणां निर्जराहेतुर्महान्युयदायकः ॥ २३ ।। भोगोपभोगवस्तूनामाहारादिकवाससाम् । संख्या सुश्रावकाणां च प्रोक्ता संतोषकारिणी ।। २४ ।।
For Private And Personal Use Only