________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽधिकारः
जयन्तु मुवनाम्भोजभानवः श्रीजिनेश्वराः। केवलज्ञानसाम्राज्याः प्रबोधितजनोत्कराः॥१॥ अथ श्रीश्रेणिको राजा विनयानतमस्तकः । नत्वा श्रीगौतमं देवं धर्म पप्रच्छ सादरम् ।। २ ॥ तदासौ सत्कृपासिन्धुगौतमो गणनायकः । संजगौ स स्वभावो हि तेषां यत्प्राणिनां कृपा ।। ३ ।। शृणु त्वं श्रेणिक व्यक्तं भावितीर्थकराग्रणीः । धर्मो वस्तुस्वभावो हि चेतनेतरलक्षणः ॥ ४ ॥ क्षमादिदशधा धर्मो तथा रत्नत्रयात्मकः । जीवानां रक्षणं धर्मश्चेति प्राहुर्जिनेश्वराः ॥५॥ जिनोक्तसप्ततत्त्वानां श्रद्धानं यच्च निश्चयात् । तत्त्वं सद्दर्शनं विद्धि भवभ्रमणनाशनम् ॥ ६॥ ज्ञानं तदेव जानीहि यत् सर्वज्ञेन भाषितम् । द्वादशाङ्ग जगत्पूज्यं विरोधपरिवर्जितम् ।। ७ ॥ चारित्रं च द्विधा प्रोक्तं मुनिश्राव कभेदभाक् । महाणुव्रतभेदेन निर्मदं सुगतिप्रदम् ।। ८॥ हिंसादिपञ्चकत्यागः सर्वथा यत्रिधा भवेत् । तच्चारित्रं महत् प्रोक्तं मुनीनां मूलभेदतः ।। ९ ।। तथा मूलोत्तरास्तस्य सद्गुणाः सन्ति भूरिशः । यैस्तु ते मुनयो यान्ति सुखं स्वर्गापवर्गजम् ।। १० ॥ श्रावकाणां तु चारित्रं शृणु त्वं श्रेणिक प्रभो। सम्यक्त्वपूर्वकं तत्र चादौ मूलगुणाष्टकम् ॥ ११ ॥
For Private And Personal Use Only