________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-1, १३१]
प्रथमोऽधिकारः रत्नत्रयसरोजश्रीसमुल्लासदिवाकर । स्याद्वादवादिने तुभ्यं नमस्ते घातिघातिने ।। १२४ ।। नमस्ते त्रिजगद्भव्यतायिने मोक्षदायिने । नमस्ते धर्मनाथाय कामक्रोधाग्निवाच्चे ॥ १२५ ।। नमस्ते स्वर्गमोक्षोरुसौख्यकल्पद्रमाय च । सिद्ध बुद्ध नमस्तुभ्यं संसाराम्बुधिसेतवे ।। १२६ ।। अनन्तास्ते गुणाः स्वामिन विशद्धाः पारवर्जिताः। अल्पधीर्मादृशो देव कः क्षमः स्तवने तव ।। १२७ ।। तथापि श्रीमतां सारपादपद्मद्वये सदा। भुक्तिमुक्तिप्रदा भक्तिभूयान्मे शर्मदायिनी ॥ १२८ ।। इत्याप्तं श्रीजिनाधी केवलज्ञानभास्करम् । स्तुत्वा नत्वा नमौधः स नरकोष्ठे सुधीः स्थितः ॥ १२९ ।। गौतमादिगणाधीशान संज्ञानमयविग्रहान् । नमस्कृत्य स चिन्मूर्तिः प्रेमानन्दनिर्भरः ।। १३० ॥ स जयतु जिनवीरो ध्वस्तमिथ्यान्धकारो
विशदगुणसमुद्रः स्वर्गमोक्षकमार्गः । सुरपतिशतसेव्यो भव्यपद्मोघभानुः
सकलदुरितहर्ता मुक्तिसाम्राज्यकर्त्ता ।। १३१ ॥ इति श्रीसुदर्शनचरिते पञ्चनमस्कारमाहात्म्यप्रदर्शके मुमुक्षु. श्रीविद्यानन्दिविरचिते श्रीमहावीरतीर्थकरपरमदेव
समागमनव्यावर्णनो नाम प्रथमोऽधिकारः ।
For Private And Personal Use Only