________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[१, १११नानासुगन्धपुष्पौधसुगन्धीकृतदिक्चयम् । इन्द्रादिकरनिर्मुक्तपुष्पवृष्टिविराजितम् ।। १११ ।। कोटिभास्करसंस्पर्द्धिदेहभामण्डलान्वितम् । तत्र भव्याः प्रपश्यन्ति स्वकीयं जन्मसप्तकम् ।। ११२ ।। दुन्दुभीनां च कोटीभिर्घोषयन्तीभिरायुतम् । मोहारातिजयं वोच्चैरालुलोक जिनं प्रभुः ।। ११३ ।। मुक्तामालायुतेनोच्चैश्चारुछत्रत्रयेण वा। त्रिधाभूतेन सेवार्थं समायातेन्दुनाश्रितम् ॥ ११४ ।। सुरासुरनरादीनां चित्तसंतोषकारिणा । दिव्येन ध्वनिना तत्त्वं द्योतयन्तं जगद्धितम् ॥ ११५ ।। अनन्तज्ञानहग्वीर्यसुखोपेतं गुणाकरम् । इन्द्रनागेन्द्रचन्द्रार्कनरेन्द्राद्यैः समर्चितम् ।। ११६ ।। इत्यादि केवलज्ञानसमुत्पन्नविभूतिभिः। विराजितं समालोक्य सानन्दो मगधेश्वरः ॥ ११७ ।। जय त्वं त्रिजगत्पूज्य महावीर जगद्धित । इत्यादि जयनिर्घोषैर्नमस्कृत्य पुनः पुनः ॥ ११८ ॥ विशिष्टाष्टमहाद्रव्य जलगन्धाक्षतादिभिः । पूजयित्वा महाप्रीत्या जिनपादाम्बुजद्वयम् ॥ ११९ ।। चकार संस्तुति भक्त्या भव्यानामीदशी गतिः। यत्सुपूज्येषु सत्पूजा क्रियते शर्मकारिणी ।। १२० ।। जय त्वं त्रिजगन्नाथ जय त्वं त्रिजगद्गुरो। जय त्वं परमानन्ददानदक्ष क्षमानिधे ॥ १२१ ॥ वीतराग नमस्तुभ्यं नमस्ते सन्मते सदा । नमस्ते भो महावीर वीरनाथ जगत्प्रभो ॥ १२२ ।। वर्धमान जिनेशान नमस्तुभ्यं गुणार्णव ।। महत्यादिमहावीर नमस्ते विश्वभाषक ।। १२३ ॥
For Private And Personal Use Only