________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशोऽधिकारः
अथ श्री केवलज्ञानी सुदर्शनसमाह्वयः । सत्यनामा जगबन्धुर्लोकालोकप्रकाशकः || १॥ स्व-स्वभावेन पूतात्मा भव्यपुण्योदयेन च । अनिच्छोsपि जगत्स्वामी स्ववाक्यामृतवर्षणैः ॥२॥ भव्यौघांस्तर्पयन्नित्यं सुरासुरसमर्चितः । विहारं सुविधायोच्चैः परमानन्ददायकः ॥३॥ अन्ते च स्वायुषः स्वामी शेषकर्मक्षयोद्यतः । विभूतिं तां परित्यज्य छत्रचामरकादिजाम् ॥४॥ निरालम्बं जिनः स्थित्वा शुभे देशे क्वचित्प्रभुः । मौनी स्वामी समासाद्य पञ्चलध्वक्षरस्थितिम् ||५|| अयोगिकेवली देवो द्वौ गन्धौ रसपञ्चकम् | पञ्चवर्णाश्रिताः पञ्च प्रकृतीः स यतीश्वरः ||६||
पञ्चधा वपुषां स्वामी बन्धनानि तथा मुनिः । पञ्चधा च शरीराणि संघातान् पञ्च कीर्तितान् ||७|| संहननपट्कं चापि संस्थानानि च तानि षट् । देवगत्यानुपूर्यैश्च विह| योगतियुग्मकम् ||८|| परं वातोपघातौ चोच्छ्वासं चागुरुलाघवम् । अयशःकीर्तिमनादेयं शुभं चाशुभमेव च ॥९॥ सुस्वरं दुःस्वरं चापि स्थिरत्वं चास्थिरत्वयुक् । स्पर्शाष्टकं च निर्माणमेकं स्थानप्रमाणवाक् ॥ १० ॥ अङ्गोपाङ्गमपर्याप्तिं दुर्भगत्वं च दुःखदम् । सप्रत्येकशरीरं च नीचैर्गोत्रं च पापकृत् ॥ ११॥
For Private And Personal Use Only