________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[११, ९०
१००
सुदर्शनचरितम् भूत्वार्यिका सती पूता जिनोक्तं सुतपः शुभम् । संचकार जगच्चेतोरञ्जनं दुःखभञ्जनम् ।।६०॥ सत्यं कुलस्त्रियो नित्यं न्यायोऽयं परमार्थतः । स्वस्वामिना धृतो मार्गो ध्रियते यच्छुभोदयः ।।२१।। पण्डिता धात्रिका सा च देवदत्ता च सा किल । पुण्याङ्गना तमानम्य निन्दां कृत्वा निजात्मनः ॥२२॥ स्वयोग्यानि व्रतान्याशु स्वीचक्राते गुणाश्रिते। अहो सतां प्रसङ्गेन किं न जायेत भूतले ॥९३।। इत्येवं परमानन्ददायिनी भव्यतायिनी । केवलज्ञानसंपत्तिः सुदर्शनजिनेशिनः ॥१४॥ सर्वदेवेन्द्रनागेन्द्रखेचराद्यैः समर्चिता। अस्माकं कर्मणां शान्त्यै भवत्वत्र शुभोदया ॥२५॥ इति विततविभूतिः केवलज्ञानमूर्तिः
सकल-सुखविधाता प्राणिनां शान्तिकर्ता । जयतु गुणसमुद्रोऽनन्तवीयैकमुद्र
स्त्रिभुवनजनपूज्यः श्रीजिनो भव्यबन्धुः ॥६६।।
इति श्रीसुदर्शनचरिते पञ्चनमस्कारमाहात्म्य प्रदर्श के मुमुक्षुश्रीविद्यानन्दिविरचिते श्रीसुदर्शनकेवलज्ञानोत्पत्तिव्यावर्णनो नाम
एकादशोऽधिकारः ।
For Private And Personal Use Only