SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् [११, १२तत्र सा मदनोन्मत्ता तं जगाद मुनीश्वरम् । भो मुने तव सद्रपं यौवनं चित्तरञ्जनम् ।।१२।। एतै गैर्मनोऽभीष्टैः सफलीकुरु साम्प्रतम् । बहुद्रव्यं गृहे मेऽस्ति नानाजनसमागतम् ।।१३।। चिन्तामणिरिवाक्षय्यं कल्पद्रमवदुत्तमम् । सर्व गृहाण दासीत्वं करिष्यामि तवेप्सितम् ।।१४।। मन्दिरे मेऽत्र सर्वत्र सर्ववस्तुमनोहरे । मम सङ्गेन ते स्वर्गः सुधीरत्र समागतः ॥१५॥ किं ते तपःप्रकष्टेन सदाप्राणप्रहारिणा । मुक्त्वा भोगान् मया साधु सर्वथा त्वं सुखी भव ॥१६॥ ततस्तां स मुनिः प्राह धीरवीरैकमानसः । रे रे मुग्धे न जानासि त्वं पापात् संसृतेः स्थितिम् ।।१७।। शरीरं सर्वथा सर्वजनानामशुचेहम् । जलबुबुदवबाढं क्षयं याति क्षणार्धतः ।।१८।। भोगाः फणीन्द्रमोगाभाः सद्यः प्राणप्रहारिणः । संपदा विपदा तुल्या चञ्चलेवातिचञ्चला ।।१९।। शीलरत्नं परित्यज्य शर्मकोटिविधायकम् । येऽधमाश्चात्र कुर्वन्ति दुराचारं दुराशयाः ॥२०॥ ते मूढा विषयासक्ताः इवभ्रं यान्ति स्वपापतः । तत्र दुःखं प्रयान्त्येव छेदनं भेदनादिकम् ।।२१।। जन्मादिमृत्युपर्यन्तं कविवाचामगोचरम् । तस्मात् सुदुर्लभं प्राप्य मानुष्यं क्रियते शुभम् ॥२२॥ इत्यादिकं प्रजल्प्योच्चैस्तस्याः स मुनिपुङ्गवः। द्विधा संन्यासमादाय मेरुवन्निश्चलाशयः ॥२३॥ चित्ते संचिन्तयामास स्वामी वैराग्यवृद्धये । अमेध्यमन्दिरं योषिच्छरीरं पापकारणम् ॥२४॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy