________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[१०,८९इन्द्रियाणां जयी शूरो न शूरः सङ्गरे मरन् । अक्षशूरस्तु मोक्षार्थी रणे शूरः खलंपटः ।।८।। चन्दनागुरुकर्पूरसुगन्धद्रव्यसंचये। वाञ्छामपि त्यजन् स्वामी तदिन्द्रियजयेऽभवत् ।।९०॥ चतुरिन्द्रियमत्यन्तविरक्तः स्त्रीविलोकने । सुधीनिर्जितवान्नित्यं सर्ववस्तुस्वरूपवित् ।।११।। श्रोत्रेन्द्रिय सरागादिगीतवार्तामपि ध्रुवम् । परित्यज्य जिनेन्द्रोक्तौ प्रीतितः श्रवणं ददौ ॥९॥ इति प्रपञ्चतः स्वामी स्वपञ्चेन्द्रियवश्वकान् । वश्चयामास चातुर्याचतुरः केन कञ्च्यते ॥९॥ मस्तके लुञ्चनं चक्रे मुनीन्द्रः प्रार्थनोज्झितम् । परीषहजयार्थं च परमार्थविदांवरः ॥२४॥ त्रिसन्ध्यं श्रीजिनेन्द्राणां वन्दनाभक्तितत्परः। समताभावमाश्रित्य सामायिकमनुत्तरम् ।।१५।। करोति स्म सदा दक्षस्तदोषौधैर्विवर्जितम् । चैत्यपञ्चगुरूणां च भक्तिपाठक्रमादिभिः ।।१६।। चतुर्विंशतितीर्थेशां संतनोति स्म संस्तुतिम् । सर्वपापापहां नित्यं महाभ्युदयदायिनीम् ॥९७।। वन्दनामेकतीर्थेशो ज्ञानादिगुणगोचराम् । तद्गुणप्राप्तये नित्यं चक्रेऽसौ चतुरोत्तमः ॥२८॥ प्रतिक्रमणमत्युच्चैः कृतदोषक्षयंकरम् । करोति स्म परित्यज्य प्रमाई सर्वदा सुधीः ।।१९।। वलनानन्तरं नित्यं प्रत्याख्यानं सुखाकरम् । देवगुर्वादिसाक्षं च गृह्णाति स्म विचक्षणः ॥१००॥ अन्यो यस्तु परित्यागो यस्य कस्यापि वस्तुनः । स्वशक्त्या क्रियते धीरैः प्रत्याख्यानं च कथ्यते ।।१०१।।
For Private And Personal Use Only