SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org -१०, ८८ ] Acharya Shri Kailassagarsuri Gyanmandir दशमोऽधिकारः इष्टानिष्ठेन्द्रियोत्पन्नविषयेषु सदा मुनेः । रागद्वेषपरित्यागाः पञ्चमव्रतभावनाः ||१६|| इत्येवं भावनाः स्वामी पञ्चविंशतिमुत्तमाः । तेषां पञ्चवतानां च पालयामास नित्यशः ॥७७|| तथा दयापरो धीरः सदेर्यापथशोधनम् । करोति स्म प्रयत्नेन निधानं वा विलोक्यते ॥ ७८ ॥ यद्विना न दयालक्ष्मीर्भवेन्मुक्तिप्रसाधिनी । यथा रूपयुता नारी शीलहोना न शाभते ॥ ७९ ॥ जिनागमानुसारेण ब्रुवन् स्वामी वचोऽमृतम् । भाषादिसमितिं नित्यं भजति स्म प्रशर्मदाम् ||८०|| श्रावकैर्युक्तितो दत्तमन्नपानादिकं शुभम् । संविलोक्य मुनिचैकवारं संतोषपूर्वकम् ||८१॥ तपोवृद्धिनिमित्तं च मध्ये मध्ये तपश्चरन् । एषणासमितिं नित्यं संबभार मुनीश्वरः ॥ ८२॥ आदाने ग्रहणे तस्य प्रायो नास्ति प्रयोजनम् । सर्वव्यापार निर्मुक्ते निस्पृहुत्वं विशेषतः ||८३ || तथापि पुस्तकं कुण्डों कदाचित् किंचिदुत्तमम् । मृदु पिच्छकलापेन स्पृष्ट्वा गृह्णाति संयमी ॥ ८४ ॥ कचिन्मलादिकं किंचित्प्रासुकस्थानके त्यजन् । प्रतिष्ठापनिकां युक्त्या समितिं स सुधीः श्रितः ॥ ८५ ॥ इत्येवं पञ्चसमितीर्दयाद्रमघनावलीः | पालयामास योगीन्द्रः साववानो जिनोदिते ॥ ८६ ॥ स्पर्शनं चाटवा नित्यं स्निग्धकोमलकं सुधीः । परित्यज्य पवित्रात्मा तदिन्द्रियजयोद्यतः ||८७|| जिह्वेन्द्रियं त्रिधा स्वामी स्वेच्छाहारादिवर्जनात् । जयति स्म सदा शूरः कातरत्व विवर्जितः ॥ ८८ ॥ For Private And Personal Use Only ९५
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy