SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् हास्यं रत्यरती शोकं भयं सप्तविधं त्रिधा । त्यजति स्म जुगुप्सां च मुनिर्ज्ञानबलेन सः ॥ ६४ ॥ [ १०, ६४ - उक्तं च इहपरलोयत्ताणां अगुत्तिभय मरण वेयणक्कस्सम् । सत्तविहं भयमेयं णिद्दिट्ठ जिनवरिंदे || ६५ ॥ क्षमासलिलधाराभिः पुण्यसाराभिरादरम् । चतुः कषायदावाग्नि स्वामी शमयति स्म सः ||६६ || एषो मे बान्धवो मित्रमेषो मे शत्रुकः कुधीः । इति भावं परित्यज्य स्वतत्त्वे समधीः स्थितः ||६७ || चतुर्दशविधं चेति परिग्रह महाग्रहम् । अभ्यन्तरं हि दुस्त्याज्यं त्यजति स्म महामुनिः ||६८ || तेषां पञ्चवतानां च भावनाः पञ्चविंशतिः । पञ्चपञ्चप्रकारेण मातरो वा हितकराः ||६९|| मनोगुप्तिवचोगुप्तीर्यादनक्षेपणं तथा । संविलोक्यान्नपानं च प्रथमत्रतभावनाः ॥७०॥ क्रोधलोभत्वभीरुत्वहास्य वर्जनमुत्तमम् । अनुवीची भाषणं च पञ्चैताः सत्यभावनाः ॥७१॥ आचौर्य भावनाः पञ्चशून्यागारविमोचिता । वासवर्जनमन्येषामुपरोधविवर्जनम् ॥७२॥ भैक्ष्यशुद्धिस्तथा नित्यं धर्मणि जने तराम् । विसंवादपरित्यागो भाषिता मुनिपुङ्गवैः ॥ ७३ ॥ स्त्रीणां रागकथा कर्णे तद्रूपप्रविलोकने । पूर्वरत्याः स्मृतौ पुष्टाहारे वाञ्छाविवर्जनम् ॥ ५४॥ - त्यागः शरीरसंस्कारे चतुर्थत्रतभावनाः । पता मुनिभिः प्रोक्ताः शीलरक्षणहेतवः ॥ ७ ॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy