________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
–१०, ६३ ]
दशमोऽधिकारः
सत्यं हितं मितं वाक्यं विरोधपरिवर्जितम् ।
नित्यं जिनागमे प्रोक्तं भजति स्म त्रिधा सुधीः ॥ ५१ ॥ तच्च जीवदया हेतुः कथितो जैनतात्त्विकैः । येन लोकेऽत्र सत्कीर्तिः सुलक्ष्मीः सद्यशो भवेत् ॥५२॥ अदत्तविरतिं स्वामी सर्वथा प्रत्यपालयत् । यो गृह्णाति परद्रव्यं तस्य जीवदया कुतः || ५३॥ ब्रह्मचर्यं जगत्पूज्यं सर्वपापक्षयंकरम् । सभेदैर्नवभिर्नित्यं सावधानतया दुधे || ५४ ॥ त्यक्तस्त्रीषण्ढपश्वादिकुसङ्गो दृढमानसः । निर्जने सुवनादौ च विरागी सोऽवसत्सुखम् ||५५|| सर्वेषां मण्डनं तद्धि यतीनां च विशेषतः । आजन्म मोक्षपर्यन्तं स दुधे तजगद्धितम् ||५६ ॥ यथा रूपे शुभा नासा बले राजा जवो हरौ । धर्मे जीवदया चित्ते दानं शीलं व्रते तथा ॥ ५७ ॥ शीलं जीवदयामूलं पापदावानले जलम् । शीलं तदुच्यते सद्भिर्यच्च स्वत्रतरक्षणम् ||५८|| एवं मत्वा स पूतात्मा शीलं सुगतिसाधनम् । पालयामास यत्नेन सावधानो मुनीश्वरः || ५९ || क्षेत्रं वास्तु धनं धान्यं द्विपदं च चतुष्पदम् । यानं शय्यासनं कुप्यं भाण्डं चेति बहिर्दश || ६० || अत्यजत्पूर्वतः स्वामी मनोवाक्काययोगतः ! शरीरे निस्पृहश्चापि कथं सङ्गरतो भवेत् ॥ ६१ ॥ विरुद्धं यज्जिनेन्द्रो केस्तन्मिथ्यात्वं च पञ्चधा । स्वामी सम्यक्त्वरक्षार्थं वान्तिवद्द्रतोऽत्यजत् ॥६२॥ स्त्रीपुन्नपुंसकं चेति वेदत्रयमथोत्कटम् । तद्वत्संगमपि त्यक्त्वा तदुश्चैर्निरवासयत् ॥६३॥
For Private And Personal Use Only
९३