________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०
सुदर्शनचरितम्
[१०, १२अधुनापि निजं कार्य कुर्वेऽहं सर्वथा ध्रुवम् । कथं संसारकान्तारे दुःखी तिष्ठामि भीषणे ॥१॥ इत्यादिकं समालोच्य राज्यं दत्वा सुताय च । सुकान्तं श्रेष्ठिनः पुत्रं धृत्वा श्रेष्ठिपदे मुदा ॥१३॥ कृत्वा स्नपनसत्पूजां जिनानां शर्म दायिनीम् । दत्वा दानं यथायोग्यं सर्वान् संतोष्य युक्तितः ॥१४॥ सेवकैच हुभिः सार्धं क्षत्रियः सत्त्वशालिभिः । तमेव गुरुमानम्य मुनिर्जातो विचक्षणः ।।१५।। सत्यं ये भुवने भव्या जिनधर्मविचक्षणाः । ते नित्यं साधयन्त्यत्र सुधियः स्वात्मनो हितम् ॥१६॥ अन्तःपुरं तदा तस्य त्यक्तसर्वपरिग्रहम्। वस्त्रमानं समादाय स्वीचके रवोचितं तपः ॥१७॥ तथान्ये बहवो भव्या जैनधर्मे सुतत्पराः । श्रावकाणां व्रतान्युच्चैर्गृह्णन्तिस्म विशेषतः ॥१८॥ केचिञ्च सुधियस्तत्र भवभ्रमणनाशनम् । शुद्धसम्यक्त्वसद्रत्नं संप्रापुः परमादरात् ।।१९।। पारणादिवसे तत्र चम्पायां मुनिसत्तमाः । मुक्त्वा मानादिकं कष्टं जैनीदीक्षाविचक्षणाः ॥२०॥ मत्वा जैनेश्वरं मार्ग निर्ग्रन्थ्यं स्वात्मसिद्धये । ईर्यापथमहाशुद्धया भिक्षार्थ ते विनिर्ययुः ।।२।। तत्रासौ सन्मुनिः स्वामी सुदर्शनसमाह्वयः। मत्वा चित्ते जिनेन्द्रोक्तं मुनेर्मार्ग शिवप्रदम् ।।२२।। मानाहंकारनिर्मुक्तो भिक्षार्थ निर्गतस्तदा । महानपि पुरीमध्ये स्वरूपजितमन्मथः ।।२३।। दयावल्लीसमायुक्तो जंगमो वा सुरद्रुमः । ईर्यापथं सधी: पश्यन नि:स्प्रहो मानसे तराम ||२४||
For Private And Personal Use Only