________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमोऽधिकारः
अथ श्रेष्ठी विशुद्धात्मा भूत्वा निःशल्यमानसः । दत्वा सुकान्तपुत्राय सर्व श्रेष्ठपदादिकम् ||१|| भक्तितस्तं गुरुं नत्वा सुधीविमलवाहनम् । जगी भो करुणासिन्धो देहि दीक्षां जिनोदिताम् ||२||
श्रीमत्पादप्रसादेन करोमि हितमात्मनः । मुनीन्द्रः सोऽपि संज्ञानी मत्वा तनिश्चयं दृढम् ||३|| मुनीनां सारमाचारविधिं प्रोक्त्वा सुयुक्तितः । तं तरां सुस्थिरीकृत्य यथाभीष्टं जगाद च ||४|| तदा सुदर्शनो भव्यस्तदादेशरसायनम् । संप्राप्य परमानन्ददायकं तं प्रणम्य च || ५॥ बाह्याभ्यन्तरकं सङ्गं परित्यज्य त्रिशुद्धितः । कृत्वा लोचं व्रतोपेतां जैनीं दोक्षां समाददे ||६|| सत्यं सन्तः प्रकुर्वन्ति संप्राप्यावसरं शुभम् । श्रेयो निजात्मनो गाढं यथा श्रीमान् सुदर्शनः ||७|| तदा तत्सर्वमालोक्य धात्रीवाहनभूपतिः । पुनः स्वयोषितः कष्टुं कर्म सर्वं विनिन्द्य च ||८|| चिन्तयामास भव्यात्मा स्वचित्ते भीतमानसः । अहो सुदर्शनश्चायं जिनभक्तिपरायणः || ९ || लघुत्वेऽपि सुधीः शीलसागरः करुणानिधिः । इदानों च परित्यज्य सर्वं जातो मुनीश्वरः || १०| अहं च विषयासक्तो नारीरक्तोऽतिमूढधीः । न जानामि हितं किंचिद्यथा धत्तरिको जनः ॥ ११ ॥
For Private And Personal Use Only