________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नवमोऽधिकारः
Acharya Shri Kailassagarsuri Gyanmandir
- ९, ६७ ]
व्यन्तराणां विमानेषु तत्र संख्याविवर्जिताः । हेमरत्नमया सन्ति तान् वन्दे श्रीजिनालयान् ॥ ५६ ॥
योजनानां सहस्राणि त्वशीतिं परिमाणकम् । जलादिबहलं भागमादिं कृत्वा क्रमादधः || ||
सप्तपातालभूमीषु यत्र तिष्ठन्ति नारकाः । मिथ्याहिंसामृषास्तेयाब्रह्मभूरिपरिग्रहैः ||५८ ||
कष्टदुष्टकषायाः पापैः पूर्वभवाजितैः । सहन्ते विविधं दुःखं छेदनैर्भेदनादिभिः || ५९ || ताडनैस्तापनैः शूलारोहणैः कुहनैर्घनैः । स्वोत्पत्तिमृत्युपर्यन्तं कविवाचामगोचरम् ||६|| एकरज्ज सुविस्तीर्णो मध्यलोकोऽपि वर्णितः । द्विगुणद्विगुणस्फारैरसंख्यैद्वीप सागरैः ॥ ६१ ॥ जम्बूद्वीपे तथा धातकीद्वीपे पुष्करार्द्धके । मेरवः सन्ति पञ्चचैः प्रोक्तुङ्गाः सुमनोहराः ॥६२॥ संबन्धीनि च मेरूणां तेषां क्षेत्राणि सन्ति वै । शतं वै सप्ततिश्चापि तीर्थशां जन्मभूमयः || ६३|| यत्र भव्याः समाराध्य जिनधर्मं जगद्वितम् । स्वर्गापवर्गजं सौख्यं प्राप्नुवन्ति स्वशक्तितः ||३४|| मेर्वादौ यत्र राजन्ते प्रासादाः श्रीजिनेशिनाम् । चतुःशतानि पञ्चाशदष्टौ चापि जगद्धिताः ||६५ || नित्यं हेममयास्तुङ्गाः शाश्वताः शर्मकारिणः । रत्नानां प्रतिमोपेताः पूजिता नृसुराधिपैः ॥ ६६॥ व्यन्तराणां विमानेषु ज्योतिष्काणां च सन्ति वै । जिनेन्द्रभवनान्युच्चेर संख्यातानि नित्यशः ||६||
For Private And Personal Use Only
८५