SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् दत्वा दुःखादिकं जन्तोः कर्मणामुदये सति । हानिः क्रमेण सर्वत्र साविपाका मता बुधैः ॥४४॥ जिनेन्द्रतपसा कर्महानिर्या क्रियते बुधैः । अविपाका तु सा ज्ञेया निर्जरा परमोदया ॥४५॥ इति निर्जरानुप्रक्षा | विलोक्यन्ते पदार्थो हि यत्र जीवादयः सदा । स लोको भण्यते तज्ज्ञैर्जिनेन्द्रमतवेदिभिः || १६ || सकेन विहितो नैव लोको रुद्रादिना ध्रुवम् । हर्ता नैव तथा तस्य चास्ति कालत्रये मतः ||१७| अनादिनिधनो नित्यमनन्ताकाशमध्यगः । अधोमध्योर्ध्वभेदेन त्रिधासौ परिकीर्तितः ॥ ४८ ।। चतुर्दशभिरुत्सेधो रज्जुभिः प्रविराजते । रज्जनां त्रिशतान्येव त्रिचत्वारिंशता घनः ॥४९॥ प्रोक्तः समैकपचैकरज्जभिः पूर्वपश्चिमे । अधोमध्योरुब्रह्मान्ते लोकान्ते क्रमतो जिनैः ॥५०॥ दक्षिणोत्तरतः सोऽपि सर्वतः सप्तरज्जुभाक् । वृक्षो वा छल्लिभिर्वातैस्त्रिभिर्नित्यं प्रवेष्टितः ॥ ५१ ॥ रत्नप्रभापुराभागे खरादिबहलाभिधे । योजनानां सहस्राणि बाहुल्यं षोडशोक्तितः ॥५२॥ पङ्कादिहले भागे द्वितीये चतुरुत्तरा । अशीतिस्तु सहस्राणि बाहुल्यं च प्रकीर्तितम् ||५३|| तस्मिन् भागद्वये नित्यं भावनामरपूजिताः । कोटयः सप्त लाच द्वासप्ततिरनुत्तराः || ५४ || प्रासादाः श्रीजिनेन्द्राणां प्रतिमाभिविराजिताः । शाश्वताः सध्वजाद्यैश्च परमानन्ददायिनः || ५५ ॥ For Private And Personal Use Only [ ९, ४४
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy