SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [९, २३ सुदर्शनचरितम् लोकत्रयप्रदेशेषु समस्तेषु निरन्तरम् । भूयो भूयो मृतं जातं जीवेन क्षेत्रसंसृतौ ॥२३॥ उत्सपिण्यवसपिण्योः समयावलिकानताः । यासु मृत्वा न संजातमात्मना कालसंसृतौ ॥२४॥ नरनारकतिर्यक्षु देवेष्वपि समन्ततः । मृत्वा जोवेन संजातं बहुशो भवसंसृतौ ॥२५॥ असंख्येयजगन्मात्रा भावाः सर्वे निरन्तरम् । जीवेनादाय मुक्ताश्च बहुशो भवसंसृतौ ॥२६॥ इति संसारानुप्रेक्षा। एकः प्राणी करोत्यत्र नानाकर्म शुभाशुम् । पुत्रमित्रकलत्रादेः कारणं संप्रतारणम् ।।७।। तत्फलं सर्वमेकाकी भुनक्ति भवसंकटे । श्वभ्रे वा पशुयोनौ वा नरे वात्र सुरालये ॥२८॥ अतो जीवो ममत्वं च प्रकुवन्मूढमानसः । कुटुम्बादौ न जानाति स्वात्मनस्तु हिताहितम् ॥२९॥ एको भव्यो विनीतात्मा जिनभक्तिपरायणः । गुरोः पादाम्बुजं नत्वा दीक्षामादाय निस्पृहः ॥१०॥ रत्नत्रयं समाराध्य तपस्तप्त्वा सुनिर्मलम् । शुक्लध्यानेन कर्मारीन हत्वा या त शिवालयम् ॥३१।। इत्येकत्वानुप्रेक्षा। जीवोऽयं निश्चयादन्यो देहतोऽपि निरन्तरम् । शरीरे मिलितश्चापि नीरक्षीरमिव ध्रुवम् ॥३२।। का वार्ता भुवने पुत्रमित्रस्त्रीबान्धवादिषु । यत्सर्वे ते प्रवर्तन्ते बहिर्भूता विशेषतः ॥३३॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy